Proofing

This page has not been fully proofread.

शृङ्गारशतकम् ।
 
त्पन्नाः ये स्वभावाः कटाक्षक्षेपादिधर्माः ॥ "धर्मः स्वभाव आत्मा स्यादिति ह-
लायुधः" ॥ त एव मूढस्याज्ञस्य हृदि अन्तःकरणे स्फुरन्ति प्रकाशन्ते ॥ तत्र
दृष्टान्तः ॥ हि यस्मात् नलिन्याः रक्तोत्पलिन्याः रागो लोहितादिर्निसर्गसिद्धः
स्वभावसिद्धोऽस्ति, तत्र तस्यां नलिन्यां षडजिर्भ्रमरो मुधा व्यर्थमेव भ्रमते
स्वोद्देश्यकं रागं मत्वा भ्रमरो व्यर्थमेव भ्रमतीत्यर्थः ॥ "वृत्तं पूर्वोक्तमेव ॥ १० ॥
यभिलाष एव प्रणामादिहेतुर्भवतीत्याह-
 

 
सिद्धाध्यासितकन्दरे हरवृषस्कन्धावगाढद्रुमे
गङ्गाधौतशिलातले हिमवतः स्थाने स्थिते श्रेयसि ॥
कः कुर्वीत शिरः प्रणाममलिनं म्लानं मनस्वी जनो
यद्वित्रस्तकुरङ्गशावनयना न स्युः स्मरास्त्रं स्त्रियः ॥ ११ ॥
सिद्धाध्यासितेति ॥ यद्यदि वित्रस्तो भयचकितो यः कुरङ्गशावो हरिण -
शिशुस्तत्सदृशे नयने यासां ताः स्त्रियः स्मरास्त्रं कामास्त्रभूता न स्युस्तर्हि
सिद्धैरध्यासिता अधिष्ठिताः कन्दरा गुहा यस्मिन् ॥ हरः शिवस्तस्य वृषो
नन्दी तस्य स्कन्धाभ्यामवगाढा घर्षिताः द्रुमा वृक्षा यस्मिन् ॥ गङ्गया धौतं
शिलातलं यस्मिन् ॥ एतादृशे श्रेयसि श्रेयःसाधनभूते निरुपद्रवे इति यावत् ॥
हिमवतः स्थाने स्थिते सति को मनस्वी जनः शिरः मस्तकं प्रणामेन मलि-
नमत एव म्लानं कुर्वीत अपितु न कोऽपीत्यर्थः ॥ प्रणाममालिन्यपूर्वकशिरो-
ग्लानीकरणे स्त्रिय एव हेतवो नान्ये इति भावः ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥
अस्मिन् संसारे परोपकारादन्यत्पुण्यमधिकं नास्ति तथा कमलनयनाभ्यः .
स्त्रीभ्योऽन्यद्रम्यं नास्तीत्याह-
 
ते
 
भवन्तो वेदान्तप्रणिहितधियामाप्तगुरवो
 
विचित्रालापानां वयमपि कवीनामनुचराः ॥
तथाप्येतद्द्रमो नहि परहितात्पुण्यमधिकं
 
न चास्मिन् संसारे कुवलयदृशो रम्यमपरम् ॥ १२ ॥
 
भवन्त इति ॥ भवन्तो वेदान्ते प्रणिहिता धृता धीर्बुद्धियैस्तेषामाप्ताश्च
गुरवः शिक्षकाः । ( मन्त्रगुरव इत्यपि पाठः ) स्थ ॥ वयमपि विचित्रा आ-
लापा भाषणानि येषां तेषां कवीनामनुचरा अनुवर्तिनः स्मः ॥ तथाप्यस्मि-
न्संसारे परहितात्परोपकारादधिकं पुण्यं नहि नास्ति, तथा कुवलयदृशः
कमलनयनायाः स्त्रिया अपरमन्यद्रम्यं रमणीयं वस्तु नास्तीत्येतद्वयं ब्रूमः ॥
" शिखरिणी वृत्तम् । रसैरुद्रैरिछन्ना यमनसभला गः शिखरिणीति" ॥१२॥
 
Digitized by
 
Google