Proofing

This page has not been fully proofread.


 
चेष्टाभिः ॥
 
भर्तृहरिकृतं
 
66 भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मखित्यमरः " ॥ पुरुषस्य
बन्धनं खलु निश्चयेन भवति ॥ " वंशस्थं वृत्तम् । जतौ तु वंशस्थमुदीरितं
जराविति
 
तलक्षणात् ॥ ७ ॥
 

 
स्त्रियः कस्य मनो वशं न कुर्वन्ति अपि तु सर्वस्यापि कुर्वन्तीत्याह-
 
एताश्चलद्वलयसंहतिमेखलोत्थझङ्कारनू पुररवाह-
तराजहंस्यः ॥ कुर्वन्ति कस्य न मनो विवशं तरु-
ण्यो वित्रस्तमुग्धहरिणीसदृशाक्षिपातैः ॥ ८ ॥
 
एता इति ॥ चलन्ति वलयानि कङ्कणानि तेषां संहतिः समूहः मेखला
काञ्ची च ताभ्यामुत्थितो झङ्कारः शब्दः, नूपुराणां पादभूषणानां वश्च ताभ्या-
माहृता पराभूता राजहंसी याभिस्ताः कङ्कणकाञ्चीनपुररवैर्जितराजहंसीशब्दा
इत्यर्थः ॥ एतादृश्यस्तरुण्यः, वित्रस्ता भयचकिता मुग्धा सुंदरी या हरिणी
तत्सदृशानामक्ष्णां नेत्राणां पातैश्चालनैः कस्य पुरुषस्य मनोऽतः करणं विवशं
व्याकुलं न कुर्वन्ति अपि तु सर्वस्यापि कुर्वन्तीत्यर्थः ॥ स्त्रियः पुरुषं सवर्था
वशीकुर्वन्तीति भावः ॥ " वसन्ततिलका वृत्तम् " ॥ ८ ॥
 
66
 
योषिदेव सुखदुःखैकहेतुर्नान्यत्किमपीत्याह-
 
सत्यं जना वच्मि न पक्षपाताल्लोकेषु सर्वे-
ष्वतितथ्यमेतत् ॥ नान्यन्मनोहारि नितम्बि-
नभ्यो दुःखस्य हेतुर्न हि कश्चिदन्यः ॥ ९ ॥
 
सत्यमिति ॥ हे जनाः अहं सत्यं वच्मि पक्षपातान्न ॥ सर्वेषु लोकेषु एत-
देवातितथ्यम् ॥ किं तत् ॥ नितम्बिनीभ्यः स्त्रीभ्योऽन्यन्मनोहारि मनसः आक-
र्षकं मनःसंतोषकरमिति यावत् नास्ति, अन्यो योषिदतिरिक्तः कश्चिदपि दुःखस्य
हेतुः कारणं नहि ॥ असति वैराग्ये स्त्रीभ्योऽन्यन्मनोरमं नास्ति, वैराग्यपूर्वक-
विचारे क्रियमाणे दुःखहेतुरन्यन्नास्तीति भावः ॥ " इन्द्रवज्रा वृत्तम् । स्यादि-

न्द्रवज्रा यदि तौ जगौ ग इति " तल्लक्षणात् ॥ ९ ॥
 
"
 
स्त्रीणां स्वभावसिद्धान् कटाक्षादीन् दृष्ट्वा स्वीयत्वेन मत्वा मूढपुरुषो मो -
हितो भवतीति भ्रमरदृष्टान्तपूर्वकमाह-
 
लीलावतीनां सहजाः स्वभावास्त एव मूढस्य
हृदि स्फुरन्ति ॥ रागो नलिन्या हि निसर्गसि-
द्धस्तत्र भ्रमत्येव मुधा षडङ्गिः ॥ १० ॥
 
लीलावतीनामिति ॥ लीलावतीनां विलासवतीनां स्त्रीणां सहजाः सहो-
 
Digitized by Google