शतकत्रयम् /64
This page has not been fully proofread.
शृङ्गारशतकम् ।
जघनमरुणरत्नग्रन्थिकाञ्चीकलापं
कुवलयनयनानां को विहातुं समर्थः ॥ ५ ॥
भवतीति ॥ श्रुतेन अनेकविधश्रवणेन मुखरं सशब्दं मुखमाननं येषां
बहु जल्पाकानामिति यावत् । तेषां पण्डितानां सङ्गत्यागं स्त्रीसङ्गत्यागमुद्दिश्य
वचस्येव केवलं वार्ता भवति वार्तामात्रमेव भवति न तु तथाचरणमित्यर्थः ॥
किंतु कुवलयं कमलपत्रं तत्सदृशे नेत्रे यासां तासां अरुणै रक्तवर्णै रत्नैर्ग्रन्थिर्म-
थनं यस्मिन्नेतादृशः काञ्चीकलापः कटिभूषणं यस्मिन् तत् जघनं विहातुं
त्यक्तुं कः समर्थः । न कोऽपीत्यर्थः ॥ स्त्रीसंगत्यागवार्ता वाण्या कर्तुं बहवः
पण्डिताः सन्ति परंतु तत्त्यागं मनसा कर्तु कोऽपि न समर्थ इति भावः ॥
" मालिनी वृत्तम् । ननमयययुतेयं मालिनी भोगिलोकैरिति " तल्लक्षणात् ॥५॥
गजादिगर्वहरणे केचिच्छूराः सन्ति परंतु दुर्जयं कामं जेतुं समर्था अति-
दुर्लभा इत्याह-
मत्तेभकुम्भदलने भुवि सन्ति शूराः केचित्प्रचण्डमृ-
गराजवधेऽपि दक्षाः ॥ किं तु ब्रवीमि बलिनां पुरतः
प्रसह्य कन्दर्पदर्पदलने विरला मनुष्याः ॥ ६॥
मत्तेभेति॥ मत्तो मदोन्मत्तो य इभो गजस्तस्य कुम्भो गण्डस्थलं तस्य दलने
विदारणे शूरा भुवि सन्ति, केचित्प्रचण्डोऽत्यन्तकोपनः ॥ " चण्डस्वत्यन्त-
कोपन इत्यमरः " यो मृगराजः सिंहस्तस्य वधे हननेऽपि दक्षाः समर्थाः
सन्ति किंतु परंतु कन्दर्पः कामस्तस्य दर्पो गर्वस्तस्य दलने मनुष्या विरलाः
सन्तीति बलिनां बलिष्ठानां पुरतोऽप्रभागे प्रसह्य हठात् ॥ " प्रसह्य तु हठा-
र्थकमित्यमरः " अहं ब्रवीमि ॥ अत्याग्रहपूर्वकं ब्रवीमीत्यर्थः ॥ 66 वसन्त-
तिलका वृत्तम् " ॥ ६॥
स्त्रियः स्मितादिभावैः पुरुषमवश्यं बनन्तीत्याह -
स्मितेन भावेन च लज्जया भिया पराङ्मुखै -
रर्धकटाक्षवीक्षणैः ॥ वचोभिरीयकलहेन ली-
लया समस्तभावैः खलु बन्धनं स्त्रियः ॥ ७ ॥
स्मितेनेति ॥ स्त्रियः स्मितेनेषद्धास्येन, भावेन हस्ताद्यवयवचालनेन,
लज्जया मुखादिगोपनरूपया, भिया कदाचिद्भीत्या, पराङ्मुखैः पराचीनमुखैः,
अर्धकटाक्षवीक्षणैरर्धोन्मीलितापाङ्गदर्शनैः, वचोभिश्चारुभाषणैः, ईर्ष्या परो-
त्कर्षासहिष्णुत्वं तेन कलहस्तेन, लीलया विलासेन, एतैः समस्तभावैः सर्व-
Digitized by Google