Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
नीतिशतकम् ।

१३

</ignore>

स्थायी ॥ मुखमाननं विद्ययाऽवदातं शुद्धम् "अवदातः सिते पीते शुद्धे

इत्यमरः" इदं पूर्वोक्तं सर्वं पिष्टपं जगद्धरत्युद्धरति तच्छीलस्तस्मिन् 'ताच्छील्ये

णिनिः' "जगत्स्यात्पिष्टपे क्लीबं वायौ ना जङ्गमे त्रिष्विति मेदिनी" विष्टपेत्यपि

पाठः ॥ इष्टं ददातीतीष्टदो हरिस्तस्मिन् तुष्टे संतुष्टे सति देहिना शरी-

रिणा सम्यक्प्राप्यते नान्यथेति भावः "शार्दूलविक्रीडितं वृत्तम् " ॥ २९ ॥

प्राणिहिंसाद्यकरणमेव कल्याणमार्ग इत्याह-

<verse>
प्राणाघातान्निवृत्तिः परधनहरणे संयमः सत्यवाक्यं

काले शक्त्या प्रदानं युवतिजनकथामूकभावः परेषाम् ॥

तृष्णास्रोताविभङ्गो गुरुषु च विनयः सर्वभूतानुकम्पा

सामान्यः सर्वशास्त्रेष्वनुपहतविधिः श्रेयसामेष पन्थाः ॥ २६ ॥
</verse>

प्राणाघातादिति ॥ प्राणस्य स्वस्यान्यस्य वाऽऽघातो हननं तस्मान्निवृत्तिर्नि -

वर्तनं, परेषां धनस्य द्रव्यस्य हरणे संयमश्चित्तनिग्रहः, परधनहरणे प्रवृत्त्यभाव

इत्यर्थः । सत्यवाक्यं यथार्थभाषणं, काले पुण्यकाले शक्त्या यथाशक्त्या प्रदानं

ब्राह्मणादिभ्यो दानं, परेषामन्येषां युवतिजनस्य तरुणीजनस्य कथासु मूकभा-

वस्तूष्णींभावः ॥ वाचा परस्त्रीकथानुद्घाटनमित्यर्थः ॥ तृष्णाया आशायाः

स्रोतः

प्रवाहस्तस्य विभङ्गो नाशः, गुरुषु महाजनेषु विनयो नम्रता, सर्व-

भूतेषु सर्वप्राणिष्वनुकम्पा दया, एषः सर्वशास्त्रेषु अनुपहतोऽकुण्ठितोऽप्रति-

षिद्ध इति यावत् ॥ विधिर्विधानं यस्यैतादृशः सामान्यः सर्वलोकसाधारणः

श्रेयसां कल्याणानां पन्था मार्गे नान्य इत्यर्थः ॥ " स्रग्धरा वृत्तम् ॥ म्रन्नै-

र्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयमिति " तल्लक्षणात् ॥ २६ ॥

नीचमध्यमोत्तमानां क्रियारम्भे वैचित्र्यमाह—

<verse>
प्रारभ्यते न खलु विघ्नभयेन नीचैः

प्रारभ्य विघ्नविहता विरमन्ति मध्याः ॥
विभैः

विघ्नैः
पुनः पुनरपि प्रतिहन्यमानाः

प्रारभ्य तूत्तमजना न परित्यजन्ति ॥ २७ ॥

</verse>

प्रारभ्यत इति ॥ नीचैरज्ञैर्विघ्नस्यान्तरायस्य " विघ्नोऽन्तरायः प्रत्यूह इत्यमरः"

भयं भीतिस्तेन, कर्म न प्रारभ्यते खलु निश्चयेन ॥ मध्या मध्यमाः प्रारभ्य

प्रारम्भं कृत्वा विघ्नेन विहताश्चालिताः सन्तो विरमन्ति विरामं प्राप्नुवन्ति,

कर्म न कुर्वन्तीत्यर्थः ॥ उत्तमजनास्तु प्रारभ्यारम्भं कृत्वा विघ्नैः पुनः पुनर्वारं-

Di

</pa
gitized by

Google

e>