Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
नीतिशतकम् ।

११</ignore>

किं सर्पैर्यदि दुर्जनाः किमु धनैर्विद्याऽनवद्या यदि

११

व्रीडा चेत्किमु भूषणैः सुकविता यद्यस्ति राज्येन किम् ॥ २१ ॥

क्षान्तिश्चेदिति ॥ क्षान्तिः क्षमा चेद्वचनेन जगन्मनोहारिभाषणेन यद्वा

दुर्जनोक्तनिन्द्यभाषणेन किम् । क्षमयैव सर्वं जगत्प्रसन्नं भवतीत्यर्थः ॥ देहिनां

शरीरिणां क्रोधोऽस्ति चेदरिभिः शत्रुभिः किम् ॥ इह लोकपरलोकभ्रंशनादि
सर्व

सर्वं
शत्रुकर्म स एव करिष्यतीत्यर्थः ॥ ज्ञातिः स्वजातिः संनिधावस्ति

चेदनलेनाग्निना किम् ॥ अग्निकृतं तापादिकं सैव करिष्यति ॥ यदि सुहृ-

त्सखा हितकर्ता चेद्दिव्यौषधैरुत्तमौषधैः फलं साध्यं किम् ॥ यद्वा सुष्ठु सन्तुष्टं

हृदन्तःकरणम् ॥ " स्वान्तं हृन्मानसं मन इत्यमरः " ॥ औषधैः शरीरहितं भवति

तत्सुहृदा भवति ॥ यदि दुर्जनाः खलाः सन्ति तर्हि सर्वैःपैः किम् ॥ दंशनं

विनापि दुर्जनैः प्राणघातादिकरणे सर्वैः किं प्रयोजनमित्यर्थः यदि अनव-

द्याऽनिन्द्या विद्या चेद्धनैर्द्रव्यैः किमु ॥ धनेन यथा सुखं तथा विद्ययैव भव-

तीत्यर्थः ॥ यदि व्रीडा लज्जा चेद्भूषणैर्बहिरलङ्कारैः किमु ॥ तयैवालङ्करणकार्
यं
भवति ॥ यदि सुष्ठु कीर्त्यादिवर्णन चतुरा कविता पद्यादिरचनाऽस्ति चेत्तर्हि

राज्येन किम् ॥ तयैव राज्यादिसुखं भवतीत्यर्थः ॥ वृत्तं पूर्वोक्तमेव ॥ २१ ॥

उचितक्रियां कुर्वति जने न्यायमार्गस्थितिर्भवतीत्याह-

<verse>
दाक्षिण्यं स्वजने दया परजने शाठ्यं सदा दुर्जने

प्रीतिः साधुजने नयो नृपजने विद्वज्जनेष्वार्जवम् ॥

शौर्यं शत्रुजने क्षमा गुरुजने नारीजने धूर्तता ।

ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः ॥२२॥
</verse>

दाक्षिण्यमिति ॥ खजने पुत्रकलत्रादौ दाक्षिण्यमौदार्यं सारल्यम् ॥

"दक्षिणे सरलोदारावित्यमरः " परजने स्वीयातिरिक्तजने दया कृपा ॥

दुर्जने खलजने सदा शाठ्यं वञ्चकत्वम् ॥ साधुजने प्रीतिः ॥ नृपजने

नयो नीतिः ॥ विद्वज्जनेषु पण्डितेष्वार्जवमृजुता ॥ शत्रुजने शौर्यं शू-

रत्वम् ॥ गुरुजने महाजने क्षमा तत्कृतोपद्रवसहनम् ॥ नारीजने स्त्रीनने
जने
धूर्तता धौर्त्यम् ॥ एवं प्रकारेण ये पुरुषाः कलासु कुशला निपुणास्तेष्वेव

लोकानां स्थितिर्न्यायमार्गसंस्था " संस्था तु मर्यादाधारणास्थितिरित्यमरः"

सर्वे लोकास्तदनुरोधेन वर्तन्त इत्यर्थः ॥ पूर्वोक्तं वृत्तम् ॥ २२ ॥

सत्संगतिर्जाड्यहरणादिकं सर्वं करोतीत्याह -

<verse merge-next="true">
जाड्यं धियो हरति सिञ्चति वाचि सत्यं

मानोन्नतिं दिशति पापमपाकरोति ॥

Di
</verse>
</pa
gitized by Google

e>