शतकत्रयम् /22
This page has not been fully proofread.
नीतिशतकम् ।
किं सपैर्यदि दुर्जनाः किमु धनैर्विद्याऽनवद्या यदि
११
व्रीडा चेत्किमु भूषणैः सुकविता यद्यस्ति राज्येन किम् ॥ २१ ॥
क्षान्तिश्चेदिति ॥ क्षान्तिः क्षमा चेद्वचनेन जगन्मनोहारिभाषणेन यद्वा
दुर्जनोक्तनिन्द्यभाषणेन किम् । क्षमयैव सर्वं जगत्प्रसन्नं भवतीत्यर्थः ॥ देहिनां
शरीरिणां क्रोधोऽस्ति चेदरिभिः शत्रुभिः किम् ॥ इह लोकपरलोकभ्रंशनादि
सर्व शत्रुकर्म स एव करिष्यतीत्यर्थः ॥ ज्ञातिः स्वजातिः संनिधावस्ति
चेदनलेनाग्निना किम् ॥ अग्निकृतं तापादिकं सैव करिष्यति ॥ यदि सुहृ-
त्सखा हितकर्ता चेद्दिव्यौषधैरुत्तमौषधैः फलं साध्यं किम् ॥ यद्वा सुष्ठु सन्तुष्टं
हृदन्तःकरणम् ॥ " स्वान्तं हृन्मानसं मन इत्यमरः " ॥ औषधैः शरीरहितं भवति
तत्सुहृदा भवति ॥ यदि दुर्जनाः खलाः सन्ति तर्हि सर्वैः किम् ॥ दंशनं
विनापि दुर्जनैः प्राणघातादिकरणे सर्वैः किं प्रयोजनमित्यर्थः यदि अनव-
द्याऽनिन्द्या विद्या चेद्धनैर्द्रव्यैः किमु ॥ धनेन यथा सुखं तथा विद्ययैव भव-
तीत्यर्थः ॥ यदि व्रीडा लज्जा चेद्भूषणैर्बहिरलङ्कारैः किमु ॥ तयैवालङ्करणकार्य
भवति ॥ यदि सुष्ठु कीर्त्यादिवर्णन चतुरा कविता पद्यादिरचनाऽस्ति चेत्तर्हि
राज्येन किम् ॥ तयैव राज्यादिसुखं भवतीत्यर्थः ॥ वृत्तं पूर्वोक्तमेव ॥ २१ ॥
उचितक्रियां कुर्वति जने न्यायमार्गस्थितिर्भवतीत्याह-
दाक्षिण्यं स्वजने दया परजने शाठ्यं सदा दुर्जने
प्रीतिः साधुजने नयो नृपजने विद्वज्जनेष्वार्जवम् ॥
शौर्य शत्रुजने क्षमा गुरुजने नारीजने धूर्तता ।
ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः ॥२२॥
दाक्षिण्यमिति ॥ खजने पुत्रकलत्रादौ दाक्षिण्यमौदार्य सारल्यम् ॥
"दक्षिणे सरलोदारावित्यमरः " परजने स्वीयातिरिक्तजने दया कृपा ॥
दुर्जने खलजने सदा शाठ्यं वञ्चकत्वम् ॥ साधुजने प्रीतिः ॥ नृपजने
नयो नीतिः ॥ विद्वज्जनेषु पण्डितेष्वार्जवमृजुता ॥ शत्रुजने शौर्य शू-
रत्वम् ॥ गुरुजने महाजने क्षमा तत्कृतोपद्रवसहनम् ॥ नारीजने स्त्रीनने
धूर्तता धौर्त्यम् ॥ एवं प्रकारेण ये पुरुषाः कलासु कुशला निपुणास्तेष्वेव
लोकानां स्थितिर्न्यायमार्गसंस्था " संस्था तु मर्यादाधारणास्थितिरित्यमरः"
सर्वे लोकास्तदनुरोधेन वर्तन्त इत्यर्थः ॥ पूर्वोक्तं वृत्तम् ॥ २२ ॥
सत्संगतिर्जाड्यहरणादिकं सर्वं करोतीत्याह -
जाड्यं धियो हरति सिञ्चति वाचि सत्यं
मानोन्नतिं दिशति पापमपाकरोति ॥
Digitized by Google