शतकत्रयम् /21
This page has been fully proofread once and needs a second look.
<p>१०
<verse>वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते
क्षीयन्ते खलु भूषणानि सततं वा
<p>केयूरा इति ॥ केयूरा बाहुभूषणानि पुरुषं न भूषयंत्यलङ्कुर्वन्ति ॥ चन्द्रो-
ज्ज्वलाश्चन्द्रकान्तिसदृशा हारा मुक्तादिरचिता माला न, तथा स्नानं न,
विलेपनं चन्दनादि न, कुसुमं पुष्पं न, अलङ्कृता मूर्धजाः केशा न, किं तु
एका बाणी पुरुषं समलङ्करोति सम्यग्भूषयति, सा का ॥ या संस्कृता व्याक
रणादिसंस्कारयुक्ता विद्वद्भिर्धार्यते ॥ वागतिरिक्तानि भूषणानि क्षीयन्ते खलु
न तु वाग्भूषणं क्षीयतेऽतो वाग्भूषणमेव सततं निरन्तरमक्षयमिति यावत्
भूषणमलङ्करणं नान्यदिति भावः ॥ " शार्दूलविक्रीडितं वृत्तम्" ॥ १९ ॥
<p>विद्यैव नरस्य रूपादिकमस्ति तद्रहितो नरः पशुरेवेत्याह-
<verse>विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं
विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः ॥
विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं
66
विद्या राजसु पूजिता न तु धनं विद्याविहीनः पशुः ॥ २० ॥
<p>विद्येति ॥ 'नामेति संभावनायाम्' ॥ नरस्य पुरुषस्य विद्यैवाधिकं श्रेष्ठं
रूपमस्ति विद्यावन्तः कुरूपा अपि सर्वत्र मान्या भवन्ति न तथा केवलं
सुरूपाः ॥ किंच प्रच्छन्नं स्वान्तस्थितत्वेनेतरानपहार्
नपेक्षमननादिना रक्षितं च ॥ प्रसिद्धधनं तु चोराद्यपहार्
च ॥ विद्या, भुज्यत इति भोगोऽन्नवस्त्रादि तत्करोतीति करी संपादिकेति
यावत् ॥ तथा यशः कीर्
तद्धेतुरित्यर्थः ॥ "
मुपदेष्टॄणां गृणाति हितमुपदिशतीति गुरुरुपदेष्ट्री ॥ विद्यैव विदेशगमने बन्धु-
जनो बन्धुवद्धितकारी ॥ परमुत्कृष्टं दैवतं विद्यैव ॥ विद्यैव राज्ञा सुष्ठु पूजिता,
धनं द्रविणं तु न, अतो विद्यया विहीनो रहितः पशुरेव ॥ तदुक्तम् "विहि-
ताविहितविचारशून्यबुद्धेः श्रुतिविषयैर्विधिभिर्बहिष्कृतस्य ॥ उदरभरणमात्र
वलेच्
व्यावृत्तये विद्यैवावश्यं संपादनीयेति तात्पर्यम् ॥ पूर्वोक्तमेव वृत्तम् ॥ २० ॥
<p>क्षमादिगुणयुक्तस्येतरैर्वचनादिभिः किमित्याह-
<verse merge-next="true">क्षान्तिश्चेद्वचनेन किं किमरिभिः क्रोधोऽस्ति चेद्देहिनां
शातिश्चेदनलेन किं यदि सुहृद्दिव्यौषधैः किं फलम् ॥
Di
</pag