Proofing

This page has not been fully proofread.

नीतिशतकम् ।
 
न प्रयाति न गच्छति एतादृशविद्याख्यं विद्यानामकमन्तर्धनं गुप्तं धनं येषां
तैः सह कः पुरुषः स्पर्धते स्पर्धा करोति न कोऽपि अतो हे नृपास्तान्प्रति
वयं धनवन्तो राजानः इमे त्वतिदरिद्रास्तुच्छा इति मानं गर्वमुज्झत त्यजतो.
भावः ॥ "शार्दूलविक्रीडितं वृत्तम्" ॥ १६ ॥—
 
किंच-
 
अधिगतपरमार्थान्पण्डितान्मावमंस्था-
 
स्तृणमिव लघु लक्ष्मीर्नैव तान्संरुणद्धि ॥
अभिनवमदलेखाश्यामगण्डस्थलानां
 
न भवति बिसतन्तुर्वारणं वारणानाम् ॥ १७ ॥
 
अधिगतेति ॥ अधिगतः प्राप्तः परमार्थो यैस्तान्पण्डितान् लघु तुच्छं तृण-
मिव माऽवमंस्था अपमानं मा कुरु, यतो लक्ष्मीरपि तान् नैव संरुणद्धि रोद्धुं
न शक्नोति ॥ ' तत्र दृष्टान्तः ' ॥ अभिनवो नूतनो यो मदो मदजलं तस्य
लेखा पङ्किस्तया श्यामे गण्डस्थले येषां तेषां वारणानां गजानां बिसतन्तुः
कमलनालतन्तुर्वारणं रोधको न भवति ॥ मालिनी वृत्तम् " ननमयययुतेयं
मालिनी भोगिलोकैरिति" तल्लक्षणात् ॥ १७ ॥
 
आनुषङ्गिकगुणनिवर्तको लोको दृष्टः स्वभावसिद्धगुणं निवर्तयितुं कोऽपि
समर्थो नास्तीति हंसदृष्टान्तेन दर्शयन्नाह -
 
अम्भोजिनीवननिवासविलासमेव
हंसस्य हन्ति नितरां कुपितो विधाता ॥
न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां
वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः ॥ १८ ॥
 
अम्भोजिनीति ॥ कुपितो विधाता ब्रह्मा हंसस्याम्भोजिनीनां कमलिनीनां
वनं निवासस्थानम् "वनं नपुंसकं तीरे निवासे इति मेदिनी" तत्र निवासेन
यो विलासस्तमेव नितरां हन्ति नाशयति, परंत्वस्य हंसस्य दुग्धं च जलं च
तयोर्भेदः पृथक्करणं तस्य विधौ विधाने प्रसिद्धां लोकविश्रुतां वैदग्ध्यं खा-
भाविकचातुर्यं तस्य कीर्तिमपहर्तुं दूरीकर्तुमसौ ब्रह्माऽपि न समर्थः काऽन्यस्य
वार्तेत्यर्थः ॥ " वसन्ततिलका वृत्तम् ॥ लक्षणं तूक्तमेव" ॥ १८ ॥
अङ्गदायलङ्कारेभ्यो बागलङ्कारो गरीयानित्यवश्यं स संपादनीय इत्यभि-
 
प्रायेणाह -
 
-
 
केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला
न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः ॥
 

 
Digitized by Google