Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>

भर्तृहरिकृतं

</ignore>

नेष्वपि मूर्खजनस्य संपर्कः संसर्गोंगो वरो न भवति ॥ तथा च मूर्खजनसंसर्गः

सर्वथा त्याज्य इति तात्पर्यम् ॥ अनुष्टुब् वृत्तम् ॥ १४ ॥

यस्य राज्ञो देशे कवयो निर्धनाः सन्ति स राज्ञो दोष इति मणिपरीक्षक-

दृष्टान्तेनाह-

<verse>
शास्त्रोपस्कृतशब्दसुन्दरगिरः शिष्यप्रदेयागमा

विख्याताः कवयो वसन्ति विषये यस्य प्रभोनिर्धनाः ॥

तज्जाड्यं वसुधाधिपस्य कवयोप्यर्थं विनापीश्वराः

कुत्स्याः स्युः कुपरीक्षका हि मणयो यैरर्घतः पातिताः ॥ १५ ॥
</verse>

शास्त्रोपस्कृतेति ॥ यस्य प्रभो राज्ञो विषये देशे शास्त्रेण व्याकरणादिनोप-

स्कृता अलङ्कृता ये शब्दास्तैः सुन्दरा गीर्वाणी येषां ते तथा शिष्येभ्यः

प्रदेयो दातुं योग्योऽध्यापनयोग्य इति यावत् ॥ आगमः शास्त्रं येषामतएव

विख्याताः प्रसिद्धाः कवयो निर्धना धनरहिता वसन्ति तद्वसुधायाः पृथिव्या

अधिपस्य राज्ञो जाड्यं दोषोऽस्ति न सुधियाम् ॥ हि यतस्तेऽर्थेथं द्रव्यादि

विनापीश्वराः सन्ति " तत्र दृष्टान्तः " यैः परीक्षकैर्मणयो रत्नादयो ऽर्घतो

मूल्यतः पातिताः बहुमूल्या मणयोऽल्पमूल्याः कृता अतस्ते कुपरीक्षका ज्ञा-

नशून्याः कुत्स्या निन्द्या न तु मणय इत्यर्थः ॥ ' तथा च रत्नानां मूल्यं यथा-

र्थमजानन्तः परीक्षका यथा निन्द्यास्तथोक्तविधकवीनां वास्तवं स्वरूपमजा-

नन्तो राजानोऽपि निन्द्या इति भावः ' ॥ अनेन सत्यैश्वर्ये राज्ञा कवयः

संमाननीया इति व्यज्यते ॥ " शार्दूलविक्रीडितं वृत्तम्" ॥ १५

<fix>॥</fix>

इदानीं राज्ञा विद्वांसः संमाननीया न तु गर्वेण तिरस्करणीया इति नीति
तिं
विद्याप्रशंसापूर्वकं तं प्रति बोधयन्नाह द्वाभ्याम् —

<verse>
हर्तुर्याति न गोचरं किमपि शं पुष्णाति यत्सर्वदा

ह्यार्थयर्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं पराम् ॥

कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनं

येषां तान् प्रति मानमुज्झत नृपाः कस्तैः सह स्पर्धते ॥ १६ ॥
</verse>

हर्तुरिति ॥ यद्धनं हर्तुश्चोरादेर्गोचरमक्षिविषयं न याति न प्राप्नोति,

तथा किमपि शं कल्याणं पुष्णाति पोषयति, सर्वदाऽर्थिभ्यो याचकेभ्योऽनि-

शं निरन्तरं प्रतिपाद्यमानं दीयमानमपि परामुत्कृष्टां वृद्धिधिं प्राप्नोति वर्धत इति

यावत् ॥ तदुक्तम् " अपूर्व:वः शब्दकोशोऽयं विद्यते तव भारति ॥ व्ययतो

वृद्धिमाप्नोति क्षयं प्राप्नोति गोपनादिति" किंच कल्पान्तेष्वपि निधनं नाशं

Di

</pa
gitized by Google

e>