Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
नीतिशतकम् ।

</ignore>

यस्तु साहित्यशास्त्राद्यनभिज्ञः स तु नराकारः पशुरेवेत्याह-

<verse>
साहित्यसङ्गीतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः ॥

तृणं न खादन्नपि जीवमानस्तद्भागधेयं परमं पशूनाम् ॥ १२ ॥
</verse>

साहित्येति ॥ साहित्यं काव्यालङ्कारादि, संगीतं गानादि, कला शिल्पं,

ताभिर्विहीनो रहितो नरः पुच्छं लाङ्गूलं विषाणं शृङ्गं ताभ्यां हीनः "पुच्छो-

ऽस्त्री लूमलाङ्गूले, अतस्त्रिषु विषाणं स्यात्पशुशृङ्गे इति चेत्यमरः " ॥ साक्षात्प-

शुरेव ॥ ननु पशवस्तृणं भक्षयन्त्ययं तु कुतो न खादतीति चेत्तत्राह तृणमिति ॥

तृणं न खादन्न भक्षयन्नपि जीवमान इति यत् तत्पशूनां परममुत्कृष्टं भागधेयम-

दृष्टम् ॥ अन्यथा तेषां तृणाद्यलाभाज्जीवनमपि न स्यादिति भावः ॥ तस्मान्म-

नुष्येण साहित्यादिकमवश्यं संपादनीयमिति तात्पर्यम् ॥ उपजातिर्वृत्तम् ॥

"उपेन्द्रवज्रा जतजास्ततो गौ स्यादिद्रवज्रा यदि तौ जगौ गः ॥ अनन्तरोदी-

रितलक्ष्मभाजी पादौ यदीयावुपजातयस्ता इति" तल्लक्षणात् ॥ १२ ॥

येषां विद्यादि नास्ति तेषां पशुभूतानां मनुष्यरूपेण भूमौ संचरणमि-

त्याह-

येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः ॥

ते मृत्युलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति ॥ १३ ॥

येषामिति ॥ येषां विद्याव्याकरणमीमांसादिः न नास्ति, तपो व्रतोप-
बा

वा
सादि न, दानं सत्पात्रे गवादि धनार्पणं न, ज्ञानं शास्त्रीयं व्यावहारिकं च

न, शीलं सद्वृत्तं न गुणः सत्त्वगुणः लोकानेकविधकार्यसाधको वा न, धर्मः

सदाचरणादिः न, ते मृगाः पशुभूताः "मृगः पशौ कुरङ्गे चेति मेदिनी"

नरा भुवि भारभूताः सन्तो मनुष्यरूपेण चरन्ति संचरन्ति ॥ विद्यादिहीना

मनुष्यरूपेणोपलभ्यमाना अपि पृथिव्या भारभूताः साक्षात्पशव एवेत्यर्थः ॥

तथा च पुरुषेण पशुत्वनिवारकविद्यादिकमवश्यं संपादनीयमित्यनेन सूचितम् ॥

पूर्वोक्तमेव वृत्तम् ॥ १३ ॥

पर्वतादौ वनचरैः सह भ्रमणं श्रेष्ठं, न मूर्खजनसंसर्गः स्वर्गेऽप्युचित

इत्याह-

<verse>
वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह ॥

न मूर्खजनसंपर्कः सुरेन्द्रभवनेष्वपि ॥ १४ ॥

</verse>

वरमिति ॥ पर्वतदुर्गेषु गन्तुमशक्येष्वपि स्थानेषु वने चरन्तीति वनेचरा

व्याघ्रादयस्तैः सह भ्रान्तं भ्रमणम् 'भावे क्तः ' ॥ वरमुचितम् ॥ सुरेन्द्रभव-

Di

</pa
gnized by Google

e>