Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
भर्तृहरिकृतं
 
</ignore>
<p>
शिरः शार्वमिति ॥ विष्णुपदादुत्तमान्निर्गता गङ्गा, स्वर्गात्प्रथमं शर्वः

शिवस्तस्येदं शार्वं शिरो मस्तकं प्रति पतति, तत्ततः शिरसः क्षितिधरं हि-

मालयपर्वतं पतति, उत्तुङ्गादत्युच्चान्महीं पृथ्वीं धारयतीति महीघ्रः पर्वतस्त-

स्मात् "मूलविभुजादित्वात्कः" अवनिं भूमिं पतति, अवनेश्चापि सहस्रमुखै -
 

र्जलधिं
समुद्रं पतति, एवमियं गङ्गा क्रमेणाधोधः पतन्ती स्तोकमल्पं पदमु-

पगता अथवा विवेकभ्रष्टानां सदसद्विचारशून्यानां विनिपातो विशेषेण पतनं

नीचस्थितिरिति यावत् ॥ शतमनेकानि मुखानि द्वाराणि यस्य यस्मिन्वा एता-

दृशो भवति ॥ यथा गङ्गा उत्तमस्थानाद्विष्णुपदान्निर्गता शिवमस्तकं प्रत्या-

याता एतदपेक्षयाऽन्यदुत्तमं निवासयोग्यं स्थानं नास्तीति मनसि विचारमकृ-

त्वा क्रमेण पर्वतादौ पतन्ती सहस्रमुखैर्जलधिधिं डलयोरैक्याज्जडाश्रयं नीचमेव

पदं प्राप्ता न पुनरुत्तमं पदं तथा विवेकशून्याः पुरुषाह्यनेकद्वारैर्नीचपदमेव

प्राप्नुवन्ति नोत्तमं पदमिति भावः ॥ शिखरिणी वृत्तम् ॥ लक्षणं तूक्तमेव ॥ १०॥
</p>
<p>
सर्वोपद्रवनिवर्तकोपायः शास्त्रे लोके च दृष्टो मूर्खबोधकोपायो न

क्वाऽपि दृष्ट इत्याह-
 
--</p>
<verse>
शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो

नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ ॥

व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषं
 

सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥११॥
 
</verse>
<p>
शक्य इति ॥ हुतं हविरादि भुङ्क्ते इति हुतभुगग्निः " हिरण्यरेता हुतभु-

गित्यमरः" जलेनोदकेन वारयितुं शमयितुं शक्यः 'शक्य इति क्रियाया यथा-

संभवं सर्वत्रान्वयः ' सूर्यस्यात<error> </error>प<fix> </fix>उष्णत्वं छत्रेण, तथा समदो मदयुक्तो

नागेन्द्रो गजो निशितेनाङ्कुशेन, तथा गौश्च गर्दभश्च तौ दण्डेन लगुडेन,

" दण्डोsस्त्री लगुडेऽपि स्यादित्यमरः " व्याधी रोगो भेषजस्यौषधस्य सङ्ग्रहैः

सेवनैः, तथा विषं विविधैरनेकैर्मन्त्रप्रयोगैः ॥ एवं सर्वस्योपद्रवस्य शास्त्रवि-

हितमौषधं निवर्तकोपायोऽस्ति परंतु मूर्खस्यौषधं शास्त्रविहितं लौकिकं च

नास्ति ॥ मूर्खत्वविघातक उपायो नास्तीत्यर्थः ॥ शार्दूलविक्रीडितं वृत्तम् ॥

लक्षणं तूक्तमेव ॥ ११ ॥
 
Di
</p>
</pa
gitized by
 
Google
 
>