Proofing

This page has not been fully proofread.

भर्तृहरिकृतं
 
शिरः शार्वमिति ॥ विष्णुपदादुत्तमान्निर्गता गङ्गा, स्वर्गात्प्रथमं शर्वः
शिवस्तस्येदं शा शिरो मस्तकं प्रति पतति, तत्ततः शिरसः क्षितिधरं हि-
मालयपर्वतं पतति, उत्तुङ्गादत्युच्चान्महीं पृथ्वीं धारयतीति महीघ्रः पर्वतस्त-
स्मात् "मूलविभुजादित्वात्कः" अवनिं भूमिं पतति, अवनेश्चापि सहस्रमुखै -
 
समुद्र पतति, एवमियं गङ्गा क्रमेणाधोधः पतन्ती स्तोकमल्पं पदमु-
पगता अथवा विवेकभ्रष्टानां सदसद्विचारशून्यानां विनिपातो विशेषेण पतनं
नीचस्थितिरिति यावत् ॥ शतमनेकानि मुखानि द्वाराणि यस्य यस्मिन्वा एता-
दृशो भवति ॥ यथा गङ्गा उत्तमस्थानाद्विष्णुपदान्निर्गता शिवमस्तकं प्रत्या-
याता एतदपेक्षयाऽन्यदुत्तमं निवासयोग्यं स्थानं नास्तीति मनसि विचारमकृ-
त्वा क्रमेण पर्वतादौ पतन्ती सहस्रमुखैर्जलधि डलयोरैक्याज्जडाश्रयं नीचमेव
पदं प्राप्ता न पुनरुत्तमं पदं तथा विवेकशून्याः पुरुषाह्यनेकद्वारैर्नीचपदमेव
प्राप्नुवन्ति नोत्तमं पदमिति भावः ॥ शिखरिणी वृत्तम् ॥ लक्षणं तूक्तमेव ॥ १०॥
सर्वोपद्रवनिवर्तकोपायः शास्त्रे लोके च दृष्टो मूर्खबोधकोपायो न
क्वाऽपि दृष्ट इत्याह-
 
शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो
नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ ॥
व्याधिर्भेषजसङ्घहैश्च विविधैर्मन्त्रप्रयोगैर्विषं
 
सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥११॥
 
शक्य इति ॥ हुतं हविरादि भुङ्क्ते इति हुतभुगग्निः " हिरण्यरेता हुतभु-
गित्यमरः" जलेनोदकेन वारयितुं शमयितुं शक्यः 'शक्य इति क्रियाया यथा-
संभवं सर्वत्रान्वयः ' सूर्यस्यात पउष्णत्वं छत्रेण, तथा समदो मदयुक्तो
नागेन्द्रो गजो निशितेनाङ्कुशेन, तथा गौश्च गर्दभश्च तौ दण्डेन लगुडेन,
" दण्डोsस्त्री लगुडेऽपि स्यादित्यमरः " व्याधी रोगो भेषजस्यौषधस्य सङ्ग्रहैः
सेवनैः, तथा विषं विविधैरनेकैर्मन्त्रप्रयोगैः ॥ एवं सर्वस्योपद्रवस्य शास्त्रवि-
हितमौषधं निवर्तकोपायोऽस्ति परंतु मूर्खस्यौषधं शास्त्रविहितं लौकिकं च
नास्ति ॥ मूर्खत्वविघातक उपायो नास्तीत्यर्थः ॥ शार्दूलविक्रीडितं वृत्तम् ॥
लक्षणं तूक्तमेव ॥ ११ ॥
 
Digitized by
 
Google