Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
नीतिशतकम् ।
 
</ignore>
<p>
पिबतीति द्विपो गजः यथा मदेन मदजलेनान्धो विवेकशून्यस्तथाऽहमपि

किंचिज्ज्ञत्वमदेनान्धः कार्याकार्यविवेकशून्यः समभवमासं, तदा सर्वमखिलं

जानातीति सर्वज्ञोऽस्मीति मम मनोऽवलिप्तं गर्वितमभवत् ॥ यदा बुधजनस-

काशाद्विद्वज्जनसकाशात्किंचित्किंचिच्छास्त्रादिकमवगतं प्राप्तं तदा मूर्खोऽस्मीति

मम मनोऽभवदिति पूर्वस्यैवानुषङ्गः ॥ ततो ज्वर इव मे मदो व्यपगतो नष्टः ॥

'यथा सदौषधेन ज्वरो गच्छति तथा विद्वज्जनसकाशात्प्राप्तेन ज्ञानेनाहं सर्व-

ज्ञोऽस्मीत्यभिमानो गत इत्यर्थः ' ज्वर इति सर्वरोगोपलक्षणम् ॥ शिखरिणी

वृत्तम् " रसैरुद्रैश्छिन्ना यमनसभला गः शिखरिणीति " लक्षणात् ॥ ८ ॥
</p>
<p>
इदानीं तुच्छेषु विषयेषु लुब्धं जनं श्वदृष्टान्तेन निन्दति -
 
---</p>
<verse>
कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं

निरुपमरसं प्रीत्या खादन्नरास्थि निरामिषम् ॥

सुरपतिमपि श्वा पार्श्वस्थं विलोक्य न शङ्कते

नहि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम् ॥ ९ ॥
</verse>
<p>
कृमिकुलचितमिति ॥ कृमीणां कीटानां कुलैः समूहैश्चितं व्याप्तम् ॥ लाला

मुखमलं तेन क्लिन्नमार्द्रम् ॥ "आर्द्रं सार्द्रं क्लिन्नमित्यमरः" विन्नमार्द्रम् ॥ " आई सा निमित्यमरः " विगन्धि दुर्गन्धम-

तएव जुगुप्सितं निन्द्यम् ॥ निरामिषं निर्गतमामिषं मांसं यस्मात्तत् ॥ शुष्क-

मित्यर्थः ॥ नरास्थि मनुष्यदेहास्थि, निर्गता उपमा यस्यैतादृशोऽनुपमो रसः

स्वादो यस्मिन्कर्मणि यथा तथा ॥ " रसो गन्धरसे जले इत्यारभ्य पारदस्वाद-

योः पुमानिति मेदिनी" प्रीत्या प्रीतिपूर्वकं खादन्भुञ्जन् श्वा शुनकः ॥

" शुनको भषकः श्वास्यादित्यमरः " पार्श्वस्थं निकटस्थितं सुरपतिमिन्द्रं वि-

लोक्यापि न शङ्कते न लज्जते ॥ हि यस्मात्क्षुद्रोऽल्पो जन्तुः प्राणी परिग्रह-

स्य फल्गुतां तुच्छतां न गणयति न मनुते किंत्वतितुच्छं लोकैर्निन्दितमपि

कर्म करोत्येवेति भावः ॥ हरिणी वृत्तम् " रसयुगहयैन्सर्न्सौ म्रौ स्लो गो यदा

हरिणी तदेति" लक्षणात् ॥ ९ ॥
 
</p>
<p>
उत्तमपदाच्युतः पुरुषोऽधःपतनं प्राप्नुवन्क्षुद्रपदं प्राप्नोति न पुनरुच्चपद -
-
मिति गङ्गादृष्टान्तेनाह -
 
---</p>
<verse>
शिरः शार्वं स्वर्गात्पतति शिरसस्तत् क्षितिधरं

महीभ्ध्रादुत्तुङ्गादवनिमवनेश्चापि जलधिम् ॥

अधोऽधो गङ्गेयं पदमुपगता स्तोकमथवा

विवेकभ्रष्टानां भवति विनिपातः शतमुखः ॥ १० ॥
 
Di
</verse>
</pa
gitized by
 
Google
 
>