शतकत्रयम् /16
This page has not been fully proofread.
नीतिशतकम् ।
पिबतीति द्विपो गजः यथा मदेन मदजलेनान्धो विवेकशून्यस्तथाऽहमपि
किंचिज्ज्ञत्वमदेनान्धः कार्याकार्यविवेकशून्यः समभवमासं, तदा सर्वमखिलं
जानातीति सर्वज्ञोऽस्मीति मम मनोऽवलिप्तं गर्वितमभवत् ॥ यदा बुधजनस-
काशाद्विद्वज्जनसकाशात्किंचित्किंचिच्छास्त्रादिकमवगतं प्राप्तं तदा मूर्खोऽस्मीति
मम मनोऽभवदिति पूर्वस्यैवानुषङ्गः ॥ ततो ज्वर इव मे मदो व्यपगतो नष्टः ॥
'यथा सदौषधेन ज्वरो गच्छति तथा विद्वज्जनसकाशात्प्राप्तेन ज्ञानेनाहं सर्व-
ज्ञोऽस्मीत्यभिमानो गत इत्यर्थः ' ज्वर इति सर्वरोगोपलक्षणम् ॥ शिखरिणी
वृत्तम् " रसैरुद्रैश्छिन्ना यमनसभला गः शिखरिणीति " लक्षणात् ॥ ८ ॥
इदानीं तुच्छेषु विषयेषु लुब्धं जनं श्वदृष्टान्तेन निन्दति -
कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं
निरुपमरसं प्रीत्या खादन्नरास्थि निरामिषम् ॥
सुरपतिमपि श्वा पार्श्वस्थं विलोक्य न शङ्कते
नहि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम् ॥ ९ ॥
कृमिकुलचितमिति ॥ कृमीणां कीटानां कुलैः समूहश्चितं व्याप्तम् ॥ लाला
मुखमलं तेन क्विन्नमार्द्रम् ॥ " आई सा निमित्यमरः " विगन्धि दुर्गन्धम-
तएव जुगुप्सितं निन्द्यम् ॥ निरामिषं निर्गतमामिषं मांसं यस्मात्तत् ॥ शुष्क-
मित्यर्थः ॥ नरास्थि मनुष्यदेहास्थि, निर्गता उपमा यस्यैतादृशोऽनुपमो रसः
स्वादो यस्मिन्कर्मणि यथा तथा ॥ " रसो गन्धरसे जले इत्यारभ्य पारदस्वाद-
योः पुमानिति मेदिनी" प्रीत्या प्रीतिपूर्वकं खादन्भुञ्जन् श्वा शुनकः ॥
" शुनको भषकः श्वास्यादित्यमरः " पार्श्वस्थं निकटस्थितं सुरपतिमिन्द्रं वि-
लोक्यापि न शङ्कते न लज्जते ॥ हि यस्मात्क्षुद्रोऽल्पो जन्तुः प्राणी परिग्रह-
स्य फल्गुतां तुच्छतां न गणयति न मनुते किंत्वतितुच्छं लोकैर्निन्दितमपि
कर्म करोत्येवेति भावः ॥ हरिणी वृत्तम् " रसयुगहयैन्स म्रौ स्लो गो यदा
हरिणी तदेति" लक्षणात् ॥ ९ ॥
उत्तमपदाच्युतः पुरुषोऽधःपतनं प्राप्नुवन्क्षुद्रपदं प्राप्नोति न पुनरुच्चपद -
मिति गङ्गादृष्टान्तेनाह -
शिरः शार्व स्वर्गात्पतति शिरसस्तत् क्षितिधरं
महीभ्रादुत्तुङ्गादवनिमवनेश्चापि जलधिम् ॥
अधोऽधो गङ्गेयं पदमुपगता स्तोकमथवा
विवेकभ्रष्टानां भवति विनिपातः शतमुखः ॥ १० ॥
Digitized by
Google