Proofing

This page has not been fully proofread.

१६
 
भर्तृहरिकृतं
 
भोगादेः सर्वस्य सभयत्वात् सर्वथा निर्भयं वैराग्यमेवाश्रयणीयमित्याशये-
 
नाह—
 
भोगे रोगभयं कुले च्युतिभयं वित्ते नृपालाद्भयं
मौने दैन्यभयं बले रिपुभयं रूपे जराया भयम् ॥
शास्त्रे वादभयं गुणे खलभयं काये कृतान्ताद्भयं
सर्व वस्तु भयान्वितं भुवि नृणां वैराग्यमेवाभयम् ॥ ११६ ॥
 
भोगे इति ॥ भोगे ख्यादिसुखे रोगात् भयं भीतिरस्तीति शेषः ॥ एवमु-
त्तरत्रापि बोध्यम् ॥ कुले सत्कुले च्युतिभयं विपरीतमाचरद्भयः स्त्रीपुत्रादिभ्यो
भ्रंशभयम्, वित्ते धने नृपालाद्राज्ञः सकाशाद्भयम्, समयविशेषे राजाऽपहरि-
ष्यतीति भयमित्यर्थः ॥ मौने मौनवृत्त्यां दैन्यादीनतायाः भयम्, दीनतया
मौनं भ्रश्येदिति भयमित्यर्थः ॥ बले शौर्ये रिपोः शत्रोः सकाशाद्भयम्, युद्धादि-
प्रसंगेनेत्यर्थः ॥ रूपे सौंदर्ये जरायाः सकाशात् भयम्, जरया सौंदर्यभ्रंशभयमि-
त्यर्थः ॥ शास्त्रे वादात् भयम्, वादे सति जयपराजयोरनित्यत्वादित्यर्थः ॥
गुणेखलाद्दुर्जनाद्भयम्, खलस्य गुणेषु दोषारोपस्वभावत्वादित्यर्थः ॥ काये
देहे कृतान्ताद्यमाद्भयम्, एवं सर्व वस्तु भुवि पृथिव्यां भयेनान्वितं युक्तमस्ति,
परं तु नृणां वैराग्यमेव अभयं निर्भयमस्तीत्यर्थः ॥ अयमेव श्लोकः पाठान्तरेण
दृश्यते ॥ स यथा ॥ भोगे रोगभयं सुखे क्षयभयं वित्तेषु भूभृद्भयं दासे स्वामिभयं
जये रिपुभयं वंशे कुयोषिद्धयम् ॥ माने म्लानिभयं गुणे खलभयं काये कृता-
न्ताद्भयं सर्वे नाम भयास्पदं भगवतो विष्णोः पदं निर्भयम् ॥ इति ॥
अस्यार्थः स्पष्ट एवेति कृत्वा न लिख्यते ॥ "शार्दूलविक्रीडितं वृत्तम्" ॥ ११६ ॥
बैराग्यशतकव्याख्यामर्थद्योतनिकाह्निकम् ॥ . कृष्णः कुर्यामहं तेन प्रीयतां
ज्ञानदः शिवः ॥ १ ॥ प्रख्याते भुवि शालिवाहनशकेऽट्र्याकाशधृत्यन्विते वर्षे
पार्थिवनामके रविदिने तैषेऽसिते पक्ष के ॥ द्वादश्यां शतकत्रयस्य विवृतिः
पूर्णत्वमागादियमर्थद्योतनिकाभिधाऽबुधजनोद्बोधाय या दीपिका ॥ २ ॥
इति श्रीमहाबलोपाभिधकृष्णसूरिविरचितायामर्थद्योतनिकाभिधायां टीकार्या
वैराग्यशतकं संपूर्णम् ॥ ५ ॥
 
Digitized by Google