शतकत्रयम् /156
This page has not been fully proofread.
वैराग्यशतकम् ।
न सेवां करोति, पुत्रोऽपि अमित्रायते अमित्रवदाचरतीत्यर्थः ॥ हा कष्टम् ॥
शार्दूलविक्रीडितं वृत्तम् ॥ ११३॥
इह संसारे जन्मप्रभृति मरणपर्यन्तं तदुत्तरकालमपि च सुखैकलेशोऽपि
नास्तीति सूचयन्नाह -
क्षणं बालो भूत्वा क्षणमपि युवा कामरसिकः
क्षणं वित्तैर्हीनः क्षणमपि च संपूर्णविभवः ॥
जराजीर्णेर क्रेनेट इव वलीमण्डिततनु-
र्नरः संसारान्ते विशति यमधानीजवनिकाम् ॥ ११४ ॥
क्षणमिति ॥ नरः पुरुषः नट इव संसारस्य संसरणस्य अन्ते मरणानन्त-
रमित्यर्थः ॥ यमधानी यमनगरी सैव जवनिका तिरस्करिणी लोके पडदा
इति प्रसिद्धा " प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सेत्यमरः " तां विशति
प्रविशति ॥ कीदृशो नरो नटश्च क्षणं अल्पकालं बालो भूत्वा क्षणमपि का -
मेषु विषयेषु रसिकः, युवा तथा क्षणं वित्तैर्द्रव्यैहींनो रहितः, तथा क्षणमपि च
संपूर्णो विभव ऐश्वर्ये यस्य सः, तथा जरया जीर्णानि शिथिलाने तै: अ-
हस्ताद्यवयवैरुपलक्षितः, तथा वलीभिः उदरस्थात्रवलीभिः मण्डिता भूषि-
ता तनुः शरीरं यस्यैवंविधः नटो यथा नानाविधभूमिकाः गृहीत्वा अन्ते
यथा जवनिकां प्रविशति तद्वदयं नरोऽपि बालत्वादिभूमिकाः गृहीत्वा यमपुरी-
जवनिकां प्रविशतीति भावः ॥ " शिखरिणी वृत्तम् " ॥ ११४ ॥
विक्षेपकशास्त्रार्थविचाराद्यभिलाषरहितेन मनसा शिवचिन्तनमेव कर्तव्य-
मित्यर्थ स्वमनःस्थितिप्रदर्शनेन सूचयन्नाह -
प्रशान्तशास्त्रार्थविचारचापलं निवृत्तनानारसकाव्यकौतुकम् ॥
निरस्तनिःशेषविकल्पविप्लवं प्रपत्तुमन्विच्छति शूलिनं मनः ॥ ११५ ॥
प्रशान्तेति ॥ प्रशान्तं शास्त्रार्थस्य विचारे चापलं चाञ्चल्यं यस्य तत्, शा-
स्वार्थविचारे विषये चाञ्चल्यरहितमित्यर्थः ॥ नाना अनेका रसा येषु एवंविधानि
यानि काव्यानि तेषां कौतुकं निवृत्तं नानारसकाव्यकौतुकं यस्य तत्, ना-
नाविधकाव्यदर्शने कौतुकरहितमित्यर्थः ॥ निरस्तो निःशेषो विकल्पानां वि-
प्लव उपद्रवो यस्य तत्, निःशेषविकल्परहितमित्यर्थः ॥ एवंविधं मे मनः शूलिनं
शिवं प्रपत्तं शरणीकर्तुमन्विच्छति वाञ्छति ॥ [ प्रयत्नमिति पाठे ] मनोवि -
शेषणम् ॥ प्रयत्नं प्रयत्नवदित्यर्थः ॥ यती प्रयत्ने इत्यस्य निष्ठान्तस्य रूपम् ॥
" वंशस्थं वृत्तम् " ॥ ११५ ॥
Digitized by Google