शतकत्रयम् /155
This page has not been fully proofread.
१४
भर्तृहरिकृतं
इति, कर्कशं कठिनं क्रूरं कठोरमिति चामरः " एवंविधायाः कान्तायात्रि-
या आकारस्तस्य धरा धारिणी इयं नदी दूरेण दूरतः संत्यज्यताम् ॥ की -
दृशी नदी ॥ उन्मीलन्त्यो याः त्रिवलय उदरस्थत्रिवलयस्ता एव तरङ्गवलया-
स्तरङ्गपङ्कयो यस्यां सा ॥ तथा प्रोत्तुङ्गमुन्नतं पीनं पुष्टं च यत् स्तनद्वन्द्वं
कुचयुग्मं तेन उद्यतचक्रवाकयोर्मिथुनं युग्मं यस्यां सा, तथा वक्रमेवाम्बुजं
कमलं तेन उद्भासिनी शोभमाना ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ १११
पञ्चभिर्ज्ञानेन्द्रियविषयैर्वञ्चितचित्तः स्वार्थे चालभमान आक्रोशपूर्वकं तान्नि-
न्दन्नाह—
66
इह हि मधुरगीतं नृत्यमेतद्रसोऽयं
स्फुरति परिमलोऽयं स्पर्श एष स्तनानाम् ॥
इति हतपरमार्थैरिन्द्रियैर्भ्राम्यमाणः
स्वहितकरणभूतैः पञ्चभिर्वञ्चितोऽस्मि ॥ ११२ ॥
इह हीति ॥ इह लोके मधुरं गीतं गानम्, शब्दरूपो विषय इत्यर्थः ॥
एतनृत्यं नर्तनम् चक्षुर्विषय इत्यर्थः ॥ अयं रसः स्वादुपदार्थास्वादनं, रसने-
न्द्रियविषय इत्यर्थः॥ अयं परिमलो गन्धः, घ्राणेन्द्रियविषय इत्यर्थः। एष स्तनानां
स्पर्शश्च, त्वगिन्द्रियविषय इत्यर्थः ॥ स्फुरतीति सर्वत्र संबध्यते ॥ इति भ्राम्यमा-
णोऽहं हतो नष्टः परमार्थो यैस्तैः तथा स्वहितस्य करणे धूर्तेर्वञ्चकैः पञ्च-
भिरिन्द्रियैर्वञ्चितोऽस्मि ॥ " मालिनी वृत्तम् " ॥ ११२ ॥
गात्र वैकल्यादिकारिणीं जरां निन्दन्नाक्रोशपूर्वकमाह -
गात्रं संकुचितं गतिर्विगलिता भ्रष्टा च दन्तावलि-
टर्नश्यति वर्धते बधिरता वक्रं च लालायते ॥
वाक्यं नाद्रियते च बान्धवजनो भार्या न श्रुश्रूषते
हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते ॥ ११३ ॥
गात्रमिति ॥ जीर्णं वयो यस्य एवंविधस्य पुरुषस्य गात्रं शरीरं सङ्कुचि-
तं संकोचं प्राप्तम्, तथा गतिर्गमनं विगलिता नष्टा, च पुनः दन्तावलिर्द-
न्तपङ्किष्टा पतिता, दृष्टिर्नश्यति, बधिरता बधिरत्वं वर्धते, उच्चैर्घुष्टमपि न
श्रूयते इत्यर्थः ॥ वक्रं मुखं च लालायते लालावदिवाचरति, अत्र लालावच्छ-
ब्दस्तद्वति वर्तते, तस्मात्कर्तुः क्यङिति क्यङ् ॥ बान्धवजनो वाक्यं वचनं ना-
द्वियते न स्वीकरोति, दृड् आदरे तुदादिः । तथा भार्या स्त्री न शुश्रूषते
Digitized by
Google