Proofing

This page has not been fully proofread.

वैराग्यशतकम् ।
 
५३
 
धीनयोः आत्मा ब्रह्म मनश्च तयोः अविच्छिन्ना विच्छेदरहिता निरन्तरेति या-
वत् ॥ मैत्री स्फुरति प्रकाशते परब्रह्मणि यस्य मनः सर्वदा संलग्नं भवतीत्यर्थः ॥
तस्य कृतिनः तैः प्रियाणां स्त्रीणामालापैर्भाषणैः, तथा अधरमधुभिरधरोष्ठमधु-
भिः, तथा निःश्वासाः श्वासोच्छ्वासास्तत्संबन्धिनो ये आमोदाः सुगन्धास्तैः
सहितैः वक्रकमलैः, तथा कुचकलशयोः श्लेष आश्लेषस्तत्सहितैः सुरतैमैथुनैश्व
किमु न किमपीत्यर्थः ॥ सर्वदा सांसारिकविषयत्यागपूर्वकं ब्रह्मचिन्तनमेव
कार्यमिति भावः ॥ 66 शिखरिणी वृत्तम् ॥ १०९ ॥
 
सततं परोपकारं कुर्वतामेव जन्म सफलमितरेषां तदुम्बरान्तर्वर्तिमशकव-
द्विफलमित्याह-
 
जातः कूर्मः स एकः पृथुभुवनभरायार्पितं येन पृष्ठं
श्लाघ्यं जन्म ध्रुवस्य भ्रमति नियमितं यत्र तेजस्विचक्रम् ॥
संजातव्यर्थ पक्षाः परहितकरणे नोपरिष्टान चाधो
ब्रह्माण्डोदुम्बरान्तर्मशकवदपरे प्राणिनो जातनष्टाः ॥ ११० ॥
जात इति ॥ स प्रसिद्ध एकः कूर्मः कच्छपो जातः, येन पृथु महत् यत्
भुवनं तस्य भरो भारस्तस्मै पृष्ठं स्वष्टष्ठभागः अर्पितम् ॥ स्वपृष्ठे सकलभुवन-
भारो धृत इत्यर्थः ॥ तथा ध्रुवस्यौत्तानपादेर्जन्म श्लाघ्यं स्तुत्यमस्तीति शेषः ॥ यत्र
यदाधारेण नियमितं तेजस्विनां सप्तर्ष्यादीनां चक्रं भ्रमति ॥ नोपरिष्टात् न
चाधः परहितकरणे परोपकारकरणे संजातोऽपि व्यर्थः पक्षः साहाय्यं येषां ते
"पक्षः साहाय्येप्युष्णीषे इत्यमरः " एवंविधाः अपरे प्राणिनः ब्रह्माण्डमेवोदुम्बरं
तस्यान्तर्मध्ये मशकस्तद्वत् जाताः पश्चानष्टाः जातमात्रेण नष्टा भवन्ती-
त्यर्थः ॥ न कोऽपि तेभ्यः परोपकारः स्वार्थश्चेति व्यर्थजन्मान इति भावः ॥
"
स्रग्धरा वृत्तम् ॥ ११० ॥
 
66
 
संसारसमुद्रोत्तरणं वाञ्छद्भिः पुरुषैः स्त्रीसङ्गः सर्वथा त्याज्य इत्याह-
उन्मीलत्रिवली तरङ्गवलयाप्रोलुङ्गपीनस्तन-
 
द्वन्द्वेनोद्यतचक्रवाकमिथुना वक्राम्बुजोद्भासिनी ॥
 
कान्ताकारधरा नदीयमभितः क्रूराशया नेष्यतेः
संसारार्णवमज्जनं यदि ततो दूरेण संत्यज्यताम् ॥ १११ ॥
 
उन्मीलदिति ॥ हे जनाः यदि संसारार्णवे संसारसमुद्रे मज्जनमवगाहनं नेष्यते
इष्टं न भवति ततस्तर्हि अभित आसमन्ताद्भागे क्रूरा घातुका मकरादिजीवा
यस्यां सा, पक्षे क्रूरः कठोर आशयश्चित्तं यस्याः सा, "नृशंसो घातुकः क्रूर.
 
Digitized by Google