शतकत्रयम् /153
This page has not been fully proofread.
५२
भर्तृहरिकृतं
दुष्करकर्मकारिणो निःस्पृहान्विवेकिनः पुरुषानभिनन्दन् मनोरथमात्रलब्धेषु
धनादिषु स्पृहां कुर्वन्तमात्मानं निन्दन्नाह—
ब्रह्मज्ञानविवेकिनोऽमलधियः कुर्वन्त्यहो दुष्करं
यन्मुञ्चन्त्युपभोगकाञ्चनधनान्येकान्ततो निःस्पृहाः ॥
न प्राप्तानि पुरा न संप्रति न च प्राप्ते दृढप्रत्ययो
वाञ्छामात्रपरिग्रहाण्यपि परं त्यक्तुं न शक्ता वयम् ॥ १०७ ॥
ब्रह्मज्ञानेति ॥ ब्रह्मज्ञाने विवेको विचारो येषां ते अतएवामला अज्ञानर-
हिता धीर्बुद्धिर्येषां ते पुरुषाः तत् दुष्करं दुःखेन कर्तुमशक्यं कर्म कुर्वन्ति किं
तत् एकान्ततो निश्चयेन निःस्पृहा अव्यभिलाषिणः सन्त उपभोगः ख्यादि-
सुखं काञ्चनं सुवर्णं च धनानि च तानि मुञ्चन्ति त्यजन्तीति यत् ॥ परं तु
पुरा न प्राप्तानि संप्रति वर्तमाने काले न, प्राप्ते च दृढप्रत्ययो दृढविश्वासो
न, एवं सत्यपि वयं वाञ्छामात्रेण परिग्रहो येषां तानि धनादीन्यपि त्यक्तुं परं
केवलं न शक्ताः न समर्थाः इत्यहो आश्चर्यम् ॥ "शार्दूलविक्रीडितं वृत्तम्" १०७
जरादिभिर्व्याप्ते चञ्चले आयुषि प्रतिकूलं कुर्वन्तं पुरुषं शोचन्निवाह —
व्याघ्रीव तिष्ठति जरा परितर्जयन्ती
रोगाश्च शत्रव इव प्रहरन्ति देहम् ॥
आयुः परिस्रवति भिन्नघटादिवाम्भो
लोकस्तथाप्यहितमाचरतीति चित्रम् ॥ १०८ ॥
व्याघ्रीति ॥ जरा व्याघ्रीव परितर्जयन्ती भर्त्सयन्ती सती अग्रे तिष्ठति,
रोगाश्व शत्रव इव देहं प्रहरन्ति प्रहारं कुर्वन्ति, देहः सर्वदा रोगव्याप्तो
भवतीत्यर्थः ॥ आयुरायुष्यं भिन्नश्वासौ घटश्च तस्मादम्भ उदकमिव परिस्र-
वति नश्यति, तथाऽपि लोकोऽहितं प्रतिकूलं कर्म आचरति इति चित्रमाश्चर्य-
मित्यर्थः ॥ " वसन्ततिलका वृत्तम् " ॥ १०८ ॥
सततं परब्रह्मैकतानमनसः पुरुषस्य प्रियालापादिविषयाः संतोषं न
जनयन्तीत्याह-
सदा योगाभ्यासव्यसनवशयोरात्ममनसो-
रविच्छिन्ना मैत्री स्फुरति कृतिनस्तस्य किमु तैः ॥
प्रियाणामाला पैरधरमधुभिर्वक्र कमलैः
सनिःश्वासामोदैः सकुचकलशश्लेषसुरतैः ॥ १०९ ॥
सदेति ॥ यस्य सदा निरन्तरं योगस्याभ्यासस्तस्य व्यसनं तेन वशयोरा-
Digitized by Google