Proofing

This page has not been fully proofread.

वैराग्यशतकम् ।
 
५१
 
तत्कि सुस्थितं निश्चलं नाम ॥ अपि तु किमपि सुस्थितं नेत्यर्थः [सुस्थिरमिति
पाठे]पि स एवार्थः ॥ " शार्दूलविक्रीडितं वृत्तम् ॥ १०४ ॥
 
66
 
अस्मिन्संसारे किमपि सुखसाधनं नास्तीत्याह-
 
कृच्छ्रेणामेध्यमध्ये नियमिततनुभिः स्थीयते गर्भवासे
कान्ताविश्लेषदुःखव्यतिकरविषमे यौवने विप्रयोगः ॥
नारीणामप्यवज्ञाविलसितवदनो वृद्धभावोऽप्यसाधुः
 
संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किंचित् ॥
कृच्छ्रेणेति ॥ अमेध्यं विण्मूत्रादि मध्ये मध्यभागे यस्य तस्मिन् गर्भवासे निय-
मिता सङ्कचिता तनुर्देहो येषां तेः पुरुषैः कृच्छ्रेण कष्टेन स्थीयते, गर्भे दुःखं
प्रदर्श्य यौवनवार्धक्ययोरपि दुःखं दर्शयति ॥ कान्तेति ॥ कान्तायाः स्त्रियो वि-
श्लेष वियोगस्तेन यद्दुःखं तस्य व्यतिकरो मिश्रणं तेन विषमे संभावितसङ्कटे
एतादृशे यौवने विप्रयोगः स्त्रीवियोगो भवतीति शेषः ॥ तथा नारीणां स्त्रीणा-
मप्यवज्ञयाऽवमानेन विलसितं विकसितं वदनं भाषणं यस्मिन्नेवंविधो वृद्धभा-
वो वार्धक्यमप्यसाधुरसमीचीनोऽस्ति ॥ अतोऽस्मिन्संसारे रे मनुष्याः यदि
स्वल्पमपि सुखं किंचिदस्ति तर्हि वदत ब्रूत ॥ न किंचिदस्तीत्यर्थः ॥ " शा-
र्दूलविक्रीडितं वृत्तम् " ॥ १०९ ॥
 
शतपरिमिते चञ्चले आयुषि किंचिदपि सुखाशा नेत्याह-
 
आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं
तस्यार्धस्य परस्य चार्धमपरं बालत्ववृद्धत्वयोः ॥
शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते
 
66
 
जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ॥ १०६ ॥
आयुरिति ॥ नृणां मनुष्याणां आयुः वर्षशतं शतवर्षप्रमाणं परिमितमस्ति,
तस्य अर्धे पञ्चाशत्संख्याकं रात्रौ निद्रया गतम्, तस्य पञ्चाशत्संख्याकस्यार्ध-
स्य अर्ध सार्धद्वादशसंख्याकं पूर्वार्ध परस्य पञ्चविंशतिसंख्याकस्योत्तरार्धस्यापर-
मर्धे सार्धद्वादशसंख्याकं बालत्ववृद्धत्वयोर्गतम्, तथा व्याधिः रोगः, वियोगः
कुटुम्बादिवियोगश्च ताभ्यां यद्दुःखं तेन सहितं शेषं मध्यभागस्थावशिष्टं से-
वादिभिः धनिकशुश्रूषादिभिर्नीयते, अतः वारितरङ्गवच्चञ्चलतरे जीवे जीविते
"जीवोऽस्त्री जीविते पुंसीति त्रिकाण्डशेषः " ॥ प्राणिनां कुतः सुखं स्यान्न
कुतोऽपीत्यर्थः ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ १०६ ॥
 
66
 
Digitized by Google