Proofing

This page has not been fully proofread.

५०
 
भर्तृहरिकृतं
 
परचितानि कृतानि प्रासादो भवनं, वापीतटं दीर्घिकातटं च ॥ " सरो
वापी तु दीर्घिकेत्यमरः " क्रीडाकाननं क्रीडावनं च तेषु या केलिः क्रीडा
तस्याः कौतुकं जुषन्ति ते जुषस्तेषां मनोरथमात्रकल्पितं क्रीडासुखमनुभवता-
मित्यर्थः ॥ एवंविधानां अस्माकं तु आयुरायुष्यं परं केवलं क्षीयते क्षीणं भ-
वति ॥ तस्माद्वयमधन्या इति भावः ॥ " शार्दूलविक्रीडितं वृत्तम्" ॥१०२॥
दैववशाज्जन्मादि यद्यत्प्राप्तं तत्तत्सर्वं मृत्युप्रभृतिभिर्ग्रस्तत्वाच्चिरस्थायि न भ-
वतीति श्लोकद्वयेनाह -
 
आघ्रातं मरणेन जन्म जरया विद्युश्चलं यौवनं
 
संतोषो धनलिप्सया शमसुखं प्रौढाङ्गनाविभ्रमैः ॥
लोकैर्मत्सरिभिर्गुणावनभुवो व्यालैर्नृपादुर्जनै-
 
रस्थैर्येण धृतिर्जगत्यपहृता ग्रस्तं न किं केन वा ॥ १०३ ॥
आघ्रातमिति ॥ मरणेन जन्म आघ्रातमाक्रान्तम्, आघ्रातमित्यस्य विभक्ति-
विपरिणामेन यथायोग्यमुत्तरत्रान्वयः ॥ तथा जरया विद्युदिव चलं चञ्चलं यौ-
वनं तारुण्यम्, तथा धनस्य लिप्सा लब्धुमिच्छा तया संतोषः, तथा प्रौढाया
अङ्गनायाः स्त्रियस्तासां विभ्रमैर्विलासैः शमसुखं शान्तिसुखम्, मत्सरिभिः परो-
त्कर्षासहिष्णुभिः लोकैः गुणाः शीलौदार्यादयः, व्यालैः सर्वैर्वनभुव आरण्यभू-
मयः, दुर्जनैर्नृपा राजानः, अस्थैर्येणास्वास्थ्येन धृतिर्धैर्यमपहृता, अस्मिन् जगति
केन किं न प्रस्तमपि तु सर्व ग्रस्तमित्यर्थः ॥ [ अस्थैर्येण विभूतिरप्यपहृतेति-
पाठे ] विभूतिरैश्वर्यमित्यर्थः ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ १०३ ॥
आधिव्याधिशतैर्जनस्य विविधैरारोग्यमुन्मूल्यते
 
,
 
लक्ष्मीर्यत्र पतन्ति तत्र विवृतद्वारा इव व्यापदः ॥
जातं जातमवश्यमाशु विवशं मृत्युः करोत्यात्मसा-
 
सत्किं नाम निरङ्कुशेन विधिना यनिर्मितं सुस्थितम् ॥ १०४ ॥
आधिव्याधिशतैरिति ॥ विविधैरनेकैर्जनस्य आधयो मानसपीडाः व्याधयः
शरीररोगाश्च तेषां शतानि तैः आरोग्यं उन्मूल्यते निर्मूलीक्रियते, तथा यत्र
लक्ष्मीरस्ति तत्र विविधा आपद आपत्तयः विवृतमुद्घाटितं द्वारं यासां ता इव
पतन्ति आगच्छन्ति, अवारिताः प्राप्नुवन्तीत्यर्थः ॥ तथा मृत्युः अवश्यं जातं
 
सर्व आशु शीघ्रं विवशं यथास्यात्तथा आत्मसादात्माधीनं करोति, तस्मात्
निरङ्कुशेन अप्रतिबद्धेन दुर्निवारेणेति यावत् । विधिना दैवेन यन्निर्मितमुत्पादितं
 
Digitized by
 
Google