शतकत्रयम् /150
This page has not been fully proofread.
वैराग्यशतकम् ।
४९
दितो हर्षितः एवंविधः अतः स योगी सुखं तिष्ठति ॥ योगाभ्यासपूर्वकं भ-
गवद्धयानपरस्य योगिनो जर्जरकौपीनादिभिश्चित्तवैकल्याभावात्सुखेन स्थितिर्भ-
वतीति भावः ॥ " शार्दूलविक्रीडितं वृत्तम्
" 1130011
अचिरस्थायिभोगादिविषये आशां विहाय भगवच्चिन्तनमेव सर्वदा का-
र्यमिति सूचयन्नाह -
भोगा भरवृत्तयो बहुविधास्तैरेव चायं भव-
स्तत्कस्यैव कृते परिभ्रमत रे लोकाः कृतं चेष्टितैः ॥
आशापाशशतोपशान्तिविशदं चेतः समाधीयतां
कामोच्छित्तिवशे स्वधामनि यदि श्रद्धेयमस्मद्वचः ॥ १०१ ॥
भोगा इति ॥ रे लोकाः - बहुविधा अनेकप्रकारा भोगाः ख्यादिसुखा-
नि, भङ्गुरा नाशशीला वृत्तिः प्रवर्तनं येषां ते एवंविधाः सन्तीति शेषः ॥ तै-
भोगैरेव हेतुभूतैरयं भवः संसारो भवति, तत्तस्मात् कस्यैव कृते कस्य सुखस्य
प्रयोजनाय, एवशब्दो वाक्यपूरणार्थः ॥ परिभ्रमत धावनं कुरुत, चेष्टितै-
मणादिव्यापारैः कृतं पर्याप्तम्, यदि अस्मद्वचः श्रद्धेयं श्रद्धा विश्वसनीयमि-
ति यावत् ॥ अस्ति तर्हि कामस्य उच्छित्तिर्नाशो वशे यस्य तस्मिन् कामोच्छि-
त्तिकारिणीत्यर्थः ॥ एवंविधे स्वधामनि स्वप्रकाशे आत्मनि आशापाशानां
शतं तस्योपशान्तिस्तया विशदं निर्मलं एवंविधं आशापाशरहितमिति यावत् ॥
चेतः समाधीयतामेकाप्रीक्रियताम् ॥ शार्दूलविक्रीडितं वृत्तम् ॥ १०१ ॥
गिरिदर्यादिनिवासपूर्वकमात्मचिन्तनं कुर्वतां पुरुषाणां धन्यतां केवलम-
नोरथमात्रेण क्रीडादिसुखं चिन्तयतामधन्यत्वं च सूचयन्नाह -
धन्यानां गिरिकन्दरे निवसतां ज्योतिः परं ध्यायता-
मानन्दाश्रुजलं पिबन्ति शकुना निःशङ्कमङ्केशयाः ॥
अस्माकं तु मनोरथोपरचितप्रासादद्वापीतट-
क्रीडाकाननकेलिकौतुकजुषामायुः परं क्षीयते ॥ १०२ ॥
धन्यानामिति ॥ शकुनाः पक्षिणः, गिरिकन्दरे पर्वतगुहायां निवसतां
वासं कुर्वताम् तथा परं ज्योतिर्ब्रह्म ध्यायतां चिन्तयतां धन्यानां कृतपुण्यानां
अङ्के उत्सङ्गे शेरते ते अङ्केशयाः अङ्के स्थिताः एवंभूताः सन्तः तेषामेव नेत्रे-
म्यो निर्गतं आनन्देन हर्षेण यदश्रुजलं बाष्पोदकं तत् निःशङ्कं यथा स्यात्तथा
पिबन्ति ॥ एतादृशानां धन्यानामेव आयुषः साफल्यमिति भावः ॥ मनोरथेनो-
७
Digitized by
Google