शतकत्रयम् /15
This page has not been fully proofread.
भर्तृहरिकृतं
लबिसतन्तुभिः रोद्धुं बद्धुं समुज्जृम्भते सम्यक्चेष्टते तथा वज्रमणीन्हीरकमणीन् ॥
वज्रो स्त्री हीरके पवावित्यमरः ॥ शिरीषकुसुमस्य पुष्पविशेषस्य " शिरस
इति ख्यातस्य " ॥ ' शिरीषस्तु कपीतन इत्यमरः ॥ प्रान्तेन प्रान्तभागेन
छेत्तुं भेत्तुं संनह्यते संनद्धो भवति ॥ तथा क्षाराम्बुधेः क्षारजल समुद्रस्य माधुर्यं
मृष्टजलत्वं मधुबिन्दुना माक्षिकबिन्दुना ॥ ' मधु क्षौद्रं माक्षिकादीत्यमरः ॥
रचयितुं कर्तुमीहते चेष्टते । एवं च व्यालादयो यथा मृणालतन्त्वादिभिर्बन्ध-
नादि कर्तुमशक्यास्तथा केनाप्युपायेन खलजनाः सन्मार्गे वर्तयितुं दुःशका
इति भावः ॥ " शार्दूलविक्रीडितं वृत्तम् ॥ सूर्याश्वर्मसजस्तताः सगुरवः "
इति तलक्षणात् ॥ ६ ॥
इदानीमज्ञजनानामज्ञता ऽऽवरणोपायमाह-
66
स्वायत्तमेकान्तगुणं विधात्रा विनिर्मितं छाद्नमशतायाः ॥
विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम् ॥ ७ ॥
स्वायत्तमिति ॥ विधात्रा ब्रह्मणा अज्ञताया मौर्यस्य छादनमावरणम् ॥
'छदिर् आवरणे धातुः ' ॥ मौनं तूष्णींभावः विनिर्मितं रचितम् ॥ कीदृ-
शम् ॥ स्वस्याऽऽत्मन आयत्तमधीनम् ॥" अधीनो निघ्न आयत्त इत्यमरः " ॥
पुनः कीदृशम् ॥ एकान्तगुणं एकान्ता अतिशयिता गुणा यस्मिंस्तत् ॥ " अथा-
तिशयो भर इत्युपक्रम्य ॥ तीत्रैकान्तनितान्तानीत्यमरः " विशेषतो विशेषेण
सर्व विन्दन्ति जानन्ति ते सर्वविदस्तेषां समाजे समूहे सभायामिति यावत् ॥
सदसद्विवेकबती बुद्धिः पण्डा, संजाता येषां ते पण्डिताः न पण्डिता अप-
ण्डितास्तेषां विभूषणमलंकरणं भवति ॥ अज्ञस्य स्वाज्ञानावरणे मौनादन्य
उपायो लोके नास्तीति भावः ॥
66 इन्द्रवज्रा वृत्तम् स्यादिन्द्रवज्रा यदि
तौ जगौ गः
"
इति ॥ ७ ॥
किंचिज्ज्ञानात्सर्वज्ञत्वाभिमानो भवति विशेषज्ञानात्तु तदभाव इति स्वदृ-
ष्टान्तेनाऽऽह-
यदा किंचिज्ज्ञोऽहं द्विप इव मदान्धः समभवं
तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः ॥
यदा किंचित्किचिह्नधजनसकाशाद्वगतं
तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥ ८ ॥
यदेति ॥ यदाऽहं किंचिज्जानातीति किंचिज्ज्ञः, द्वाभ्यां मुखशुण्डाभ्यां
Digitized by Google