शतकत्रयम् /149
This page has not been fully proofread.
४८
भर्तृहरिकृतं
महेश्वर इति ॥ जगतां लोकानामधीश्वरे नियन्तरि महेश्वरे शिवे, वाऽथवा
जगतः अन्तरात्मा तस्मिन् जनार्दने विष्णौ वा तयोरुभयोर्देवयोः भेदस्य
प्रतिपत्तिर्ज्ञानं नास्ति तथाऽपि तरुण इन्दुश्चन्द्रः शेखरे यस्य तस्मिन् चन्द्रशेखरे
मे भक्तिरस्तीत्यर्थः ॥
66 वंशस्थं वृत्तम् " ॥ ९८ ॥
शिवध्यानैकतत्परे पुरुषे मदनादीनां व्यापारस्य वैफल्यं सूचयन्नाह -
रे कन्दर्प करं कदर्थयसि किं कोदण्डटङ्कारितै
रेरे कोकिल कोमलैः कलरवैः किं त्वं वृथा जल्पसि ॥
मुग्धे स्निग्धविदग्धमुग्धमधुरैर्लोलैः कटाक्षैरलं
चेतश्चुम्बितचन्द्रचूडचरणध्यानामृतं वर्तते ॥ ९९ ॥
रे कन्दर्पेति ॥ रे कन्दर्प काम त्वं कोदण्डस्य धनुषः टङ्कारितैष्टणत्कारैः
करं किं किमर्थं कदर्थयसि पीडयसि, हे कोकिल त्वं कोमलैः कलरवैरव्यक्त-
मधुरध्वनिभिः वृथा व्यर्थ किं जल्पसि भाषसे, हे मुग्धे सुन्दरस्त्रि ते स्निग्धाः
प्रेमाद्रश्च विदग्धाः कार्यकरणे निपुणाश्च मुग्धाः सुन्दराश्च मधुराः प्रियाश्च
" स्वादु प्रियौ तु मधुरावित्यमरः " ॥ तैर्लोलैश्चञ्चलैः कटाक्षैरलं पर्याप्तम् ॥ कु-
तः ॥ यतो मे चेतः चन्द्रचूडस्य शिवस्य यो चरणौ तयोर्ध्यानं चिन्तनं तदे-
वामृतं यस्मिन्नेतादृशं वर्तते अतः शिवध्यानतत्परे मयि कन्दर्पादिभिः क्रियमा-
णाः सर्वे यत्ना विफला इति भावः "शार्दूलविक्रीडितं वृत्तम् " ॥ ९९ ॥
निरन्तरं भगवद्ध्यानतत्परस्य योगिनः स्थितिमाह —
कौपीनं शतखण्डजर्जरतरं कन्था पुनस्तादृशी
निश्चिन्तं सुखसाध्यभैक्ष्यमशनं शय्या श्मशाने वने ॥
मित्रामित्र समानताऽतिविमला चिन्ताथ शून्यालये
ध्वस्ताशेषमदप्रमाद मुदितो योगी सुखं तिष्ठति ॥ १०० ॥
कौपीनमिति । शतानि अनेकानि खण्डानि शकलानि तैर्जर्जरतरमतिशयेन
जर्जरमेवंविधं यस्य कौपीनमाच्छादनं वस्त्रम्, तथा पुनस्तादृशी कौपीनसह -
शी कन्था, तथा निश्चिन्तं चिन्तारहितं तथा सुखेन साध्यं भैक्ष्यं यस्मिन्नेवं-
विधमशनं भोजनम्, श्मशाने वने वा शय्या शयनम्, मित्रामित्रयोः समानता
समभावः, अथ अतिविमलाऽतिनिर्मला शून्यालये विजनगृहे चिन्ता ईश्वरध्या-
नम्, अतः ध्वस्तो निरस्तोऽशेषो मदो गर्वः प्रमादोऽनवधानता च ताभ्यां मु-
Digitized by
Google