शतकत्रयम् /148
This page has not been fully proofread.
वैराग्यशतकम् ।
४७
शोभाकरम्, तथा आसन्नं समीपस्थं मरणं च यस्यां मङ्गलसमं समुत्पद्यते, तां
काश परिहृत्य त्यक्त्वा विबुधैरन्यत्र किं किमर्थं स्थीयते हन्तेति खेदे ॥ काश्यामेव
सर्वदा निवासः श्रेयस्करो नान्यत्रेति भावः ॥ " शार्दूलविक्रीडितं वृत्तम्" ९१
नायं ते समयो रहस्यमधुना निद्राति नाथो यदि
स्थित्वा द्रक्ष्यति कुप्यति प्रभुरिति द्वारेषु येषां वचः ॥
चेतस्तानपहाय याहि भवनं देवस्य विश्वेशितु-
निर्दोवारिकनिर्दयोक्त्यपरुषं निःसीमशर्मप्रदम् ॥ ९६ ॥
नायमिति ॥ ते तव अयं समयः कालो न, अधुना नाथ: स्वामी रहस्य-
मेकान्तं यथा स्यात्तथा निद्राति, यदि स्थित्वा द्रक्ष्यति तर्हि प्रभुः कुप्यति,
इति पूर्वोक्तप्रकारेण येषां द्वारेषु वचो वाक्यं श्रूयते इति शेषः ॥ हे चेतः ता-
पुरुषानपहाय त्यक्त्वा निर्दोवारिकं द्वारपालरहितं च तन्निर्दयया उक्त्या अ-
परुषं पारुष्यरहितं च, तथा निःसीमं मर्यादारहितं शर्म सुखं प्रकर्षेण ददा-
तीत्येवंविधं विश्वेशितुर्विश्वेरस्य देवस्य भवनं गृहं याहि गच्छ ॥ राजादिद्वार-
सेवनापेक्षया काश्यां विश्वश्वरद्वारसेवनमेव श्रेयस्करमिति भावः ॥ " शार्दूल-
विक्रीडितं वृत्तम् " ॥ ९६ ॥
संसारे खिन्नः काश्चित्पुरुषः स्त्रियं संबोध्य दैवकृतेर्दुर्ज्ञेयत्वं वर्णयन्नाह -
प्रियसखि विपद्दण्डव्रातप्रतापपरम्परा-
परिधिंचपले चिन्ताचक्रे निधाय विधिः खलः ॥
मृदमिव बलात्पिण्डीकृत्य प्रगल्भकुलालव-
मयति मनो नो जानीमः किमत्र विधास्यति ॥ ९७ ॥
प्रियसखीति ॥ हे प्रियसखि खलो दुष्टो विधि: प्रगल्भः प्रौढो यः कुला-
ल: कुम्भकारस्तद्वत् मृदमिव मनश्चित्तं बलाद्बलात्कारेण पिण्डीकृत्य विपद्रूपो यो
दण्डव्रातो दण्डसमूहस्तस्य प्रतापपरम्परा तद्रूपो यः परिधिर्मण्डलाकारभ्रमणं
तेन चपलं तस्मिन् चिन्ताचक्रे निधाय भ्रमयति, इतः परं अत्र संसारे किं
विधास्यति किं करिष्यतीति वयं नो जानीमः ॥ " हरिणी वृत्तम्" ॥ ९७ ॥
उपासनादशायां क्वचिद्रुचिवैचित्र्यादेकस्मिन्भक्त्युदयेऽपि परमार्थतोऽभे -
दबुद्धिर्न त्याज्येति सूचयन्नाह -
महेश्वरे वा जगतामधीश्वरे जनार्दने वा जगदन्तरात्मनि ॥
तयोर्न भेदप्रतिपत्तिरस्ति मे तथाऽपि भक्तिस्तरुणेन्दुशेखरे ॥९८
Digitized by
Google