शतकत्रयम् /147
This page has not been fully proofread.
४६
भर्तृहरिकृतं
त्यर्थः ॥ विद्यैव येषां रत्यै प्रीत्यै अङ्गना स्त्री, स्त्रीवत्सुखदेत्यर्थः ॥ यैः शिरसि
इतरेषां राजादीनां सेवायै अञ्जलिः न बद्धो न कृतः, ते ईश्वराः समर्था इत्यहं
मन्ये ॥ शय्यादिविषयान् परित्यज्य वने स्थित्वा भगवदाराधनमेव कर्तव्य-
मिति भावः ॥ शार्दूलविक्रीडितं वृत्तम् ॥ ९३ ॥
विपद्धस्ते कुटुम्बे स्पृहां कृत्वा दुःखेन स्थित्यपेक्षया परमसुखदो गङ्गातीरे
निवासः श्रेयानिति बोधयन्नाह—
सत्यामेव त्रिलोकीसरिति हरशिरश्चम्बिनीविच्छटायां
सद्वर्त्ति कल्पयन्त्यां वटविटपभवैर्वल्कलैः सत्फलैश्च ॥
कोऽयं विद्वान् विपत्तिज्वरजनितरुजाऽतीव दुःखासिकानां
वक्रं वीक्ष्येत दुःस्थे यदि हि न विभृयात्स्वे कुटुम्बेऽनुकम्पाम्९४
सत्यामिति ॥ यदि हि अतीवात्यन्तं विपत्तिरेव ज्वरस्तेन जनिता या रुक्
रोगस्तया दुःस्थे दुःखेनाऽपि स्थातुमशक्ये स्वे स्वकीये कुटुम्बे परिवारे अनु-
कम्पां दयां न बिभृयान्न धारयेत्तर्हि हरस्य शिवस्य यच्छिरस्तच्चुम्बति तच्छी-
ला हरशिरश्चुम्बिनी एवंविधा नीव्याः स्त्रीकटिवस्त्रबन्धनस्य काञ्च्या इति या-
वत् ॥ छटा कान्तिर्यस्यास्तस्याम् ॥ शिवमस्तकस्थितायामित्यर्थः " नीवीपरि-
पणे स्त्रीणां कटीवस्त्रनिबन्धने इति मेदिनी" तथा वटविटपो वटवृक्षस्तस्मा-
द्भवैरुत्पन्नैः वल्कलैः, सत्फलैरुत्तमफलैश्च सद्वृत्ति कल्पयन्त्यां एवंविधायां त्रि-
लोकीसरिति भागीरथ्यां सत्यामेव दुःखरूपा या आसिकाः स्थितयस्तासां व-
क्रं कोऽयं विद्वान् वीक्ष्येत पश्येत् अपि तु न कोऽपीत्यर्थः T: ॥ स्रग्धरा
वृत्तम्" ॥ ९४ ॥
वैराग्यपूर्वकं काशीनिवासस्य श्रेष्ठत्वं दर्शयति श्लोकद्वयेन—
उद्यानेषु विचित्रभोजनविधिस्तीव्रातितीव्रं तपः
कौपीनावरणं सुवस्त्रममितं भिक्षाटनं मण्डनम् ॥
आसन्नं मरणं च मङ्गलसमं यस्यां समुत्पद्यते
66
तां काशीं परिहृत्य हन्त विबुधैरन्यत्र किं स्थीयते ॥ ९५ ॥
उद्यानेष्विति ॥ यस्यां उद्यानेष्वारामेषु विचित्रोऽनेकप्रकारो भोजनविधिः,
तथा तीव्रादतितीव्रं तपः कृच्छ्रचान्द्रायणादि, तथा कौपीनस्य गुह्यस्याssव-
रणमाच्छादकं सुवस्त्रं शोभनवस्त्रम्, तथा अमितमपरिमितं भिक्षाटनं मण्डनं
Digitized by Google