Proofing

This page has not been fully proofread.

वैराग्यशतकम् ।
 
४५
 
रागवौ प्रदीप्ते ज्वलिते सति वधूं स्वकान्तां सुदृढतरं यथास्यात्तथा आलि-
ष्यति आलिङ्गति एवं व्याधेः पिपासादिव्याधेः प्रतीकारो दूरीकरणं सुखमिति
विपर्यस्यति विपरीतज्ञानवान् भवति ॥ वास्तवं सुखं येन भवति तद्विहाय तृषादि-
शान्तेः सुखत्वं मनुते इति भावः ॥ " शिखरिणी वृत्तम् ॥ ९१ ॥
उदरभरणमात्र फलिकया राजादिसेवया खिन्नः कश्चिदितरसेवा न कर्त-
व्येतीतरान् शिक्षयन्नाह स्नात्वेत्यादि श्लोकद्वयेन-
 
स्नात्वा गाङ्गैः पयोभिः शुचिकुसुमफलैरर्चयित्वा विभो त्वां
ध्येये ध्यानं नियोज्य क्षितिधरकुहरग्रावपर्यङ्कमूले ॥
आत्मारामोऽफलाशी गुरुवचनरतस्त्वत्प्रसादात्स्मरारे
 
दुःखं मोक्ष्ये कदाऽहं समचरणकरे पुंसि सेवासमुत्थम् ॥ ९२ ॥
 
,
 
स्नात्वोत ॥ हे विभो अहं गाङ्गैः पयोभिर्जलैः स्नात्वा, शुचीनि कुसुमा-
नि पुष्पाणि फलानि च तैस्त्वां अर्चयित्वा पूजयित्वा क्षितिधरस्य पर्वतस्य
कुहरं दरी तत्संबन्धिनो ये ग्रावाणः पाषाणास्त एव पर्यङ्कः शय्या तस्याः मूले
ध्येये ध्यातुं योग्ये त्वयि ध्यानं नियोज्य योजयित्वा आत्मनि स्वस्वरूपे रमते -
ऽसौ आत्मारामः एवंविधः सन् हे स्मरारे कामनाशक त्वत्प्रसादात् त्वत्कृपा-
तः समौ स्वसमानौ चरणौ करौ च यस्य तस्मिन्नेतादृशे पुंसि पुरुषे सेवायाः
सकाशात्समुत्थमुत्पन्नं दुःखं कदा मोक्ष्ये ॥ कीदृशोऽहं न विद्यते ' फलस्य स्वर्गा-
देराशा यस्यास्तीति सः तथा गुरोः वचने रतः स्थितः ॥
 
"स्रग्धरा वृत्तम्" ९२
शय्या शैलशिला गृहं गिरिगुहा वस्त्रं तरूणां त्वचः
सारङ्गाः सुहृदो ननु क्षितिरु हां वृत्तिः फलैः कोमलैः ॥
येषां नैर्झरमम्बु पानमुचितं रत्यै च विद्याङ्गना
 
मन्ये ते परमेश्वराः शिरसि यैर्बद्धो न सेवाञ्जलिः ॥ ९३ ॥
 
शय्यति ॥ शैलशिला पर्वतशिला येषां शय्या शयनम्, शय्यावन्निद्रासुख-
कारिणीत्यर्थः ॥ येषामिति सर्वत्र संबध्यते ॥ गिरेः पर्वतस्य गुहा गृहम् गृहव-
त्स्थातुं योग्येत्यर्थः ॥ तरूणां वृक्षाणां त्वचो वस्त्रम्, वस्त्रवच्छरीराच्छादका
इत्यर्थः ॥ सारङ्गा मृगाः पक्षिणो वा सुहृदः सुहृद्वत्कार्यकारिण इत्यर्थः ॥ क्षिति-
रुहां वृक्षाणां कोमलैः फलैः अन्नवत्क्षुन्निवर्तकैरित्यर्थः ॥ ननु निश्चयेन वृत्ति-
र्जीविका, नैर्झरं निर्झरसंबन्धि अम्बु जलं उचितं पानं पेयम्, पानकार्यकारी-
 
Digitized by
 
Google