शतकत्रयम् /145
This page has not been fully proofread.
४४
भर्तृहरिकृतं
मनोरथादिकं विहाय मुक्तिसाधनं शिवचरणध्यानमेव सर्वदा कर्तव्यमि -
त्याह--
"
जीर्णा एव मनोरथाः स्वहृदये यातं च तद्यौवनं
हन्ताङ्गेषु गुणाश्च वन्ध्यफलतां याता गुणशैर्विना ॥
किं युक्तं सहसाऽभ्युपैति बलवान् कालः कृतान्तो ऽक्षमी
ह्याज्ञातं स्मरशासनाङ्घ्रियुगलं मुक्त्वाऽस्ति नान्यागतिः ॥९०॥
जीर्णा एवेति ॥ मनोरथाः स्वहृदय एव जीर्णाः सन्तीति शेषः ॥ तथा
तत्प्रसिद्धं यौवनं तारुण्यं यातं गतम्, हन्तेति खेदे अङ्गेषु गुणाः शौर्यौदार्या-
दयश्च गुणज्ञैर्गुणग्राहकैर्विना वन्ध्यफलतां निष्फलत्वं याताः प्राप्ताः, बलवान्
बलिष्ठः, न क्षमतेऽसौ अक्षमी क्षमारहित इत्यर्थः ॥ तथा कृतोऽन्तो नाशो ये-
नैवंविधो यमस्वरूपी कालः सहसाऽभ्युपैति प्राप्नोति " कृतान्तो यमुनाभ्राता
शमनो यमराड्यम इत्यमरः " आ इति स्मरणे ज्ञातम् मयेति शेषः ॥ " आ प्र-
गृह्यस्मृतौ इत्यमरः " किं ज्ञातम् ॥ स्मरं कामं शास्तीति तथाविध: शिवस्तस्या-
जियुगलं मुक्त्वा त्यक्त्वा तद्विनेत्यर्थः ॥ अन्या गतिर्नास्तीत्यर्थः [कालो हि सर्वा-
न्तकृन्न ध्यातं मधुसुदनाङ्गियुगलं मुक्तेस्तु नान्या गतिरिति पाठे ] सर्वान्तकृत्
सर्वेषां प्राणिनामन्तं नाशं करोत्येवंविधो बलवान्कालः सहसाऽभ्युपैति प्राप्नो-
ति हि निश्चयेन तथाऽपि मधुसूदनस्य विष्णोरङ्घियुगलं न ध्यातं न चिन्ति-
तम् ॥ मुक्तेस्तु अन्या तदङ्घ्रियुगलध्यानादपरा गतिर्नास्तीति शेषः ॥ अधुना
किं युक्तं किं योग्यम् ॥ कार्याकार्यविचारशून्योहं जातोस्मीति भावः ॥ शा-
र्दूलविक्रीडितं वृत्तम् " ॥ ९० ॥
अतिक्लेशसाध्ये पारमार्थिकसुखे सुखत्वबुद्धिमकृत्वा तृषादिशान्तौ सुखं
मन्वानं पुरुषं निन्दति —
तृषा शुष्यत्यास्ये पिबति सलिलं स्वादु सुरभि
क्षुधार्तः सन् शालीन कवलयति शाकादिवलितान् ॥
प्रदीप्ते रागाग्नौ सुदृढतरमाश्लिष्यति वधूं
प्रतीकारो व्याधेः सुखमिति विपर्यस्यति जनः ॥ ९१ ॥
तृषेति ॥ जनो लोकः आस्ये मुखे तृषा शुष्यति सति स्वादु मधुरं, तथा
सुरभि सुगन्धि एतादृशं सलिलं जलं पिबति, तथा क्षुधार्तः सन् शाकादिभि-
र्वलितान्वेष्टितान् शालीन् ओदनान् कवलयति भक्षयति, तथा रागानौ अनु-
Digitized by
Google