Proofing

This page has not been fully proofread.

वैराग्यशतकम् ।
 
४३
 
स्वर्गप्रापकं यशो न संपादितमित्यर्थः ॥ ( तदुक्तं यशसा प्राप्यते स्वर्गे वि-
परीतादधोगतिमिति ) ॥ तथा कान्तायाः कोमलपल्लवसदृशो योऽधरोऽध-
रोष्ठस्तस्य रसः स्वादश्चन्द्रोदये न पीतः, चन्द्रोदयवेलायां कान्ताधरचुम्बनमपि
न कृतमित्यर्थः ॥ तस्य पुरुषस्य तारुण्यं यौवनं शून्यालये शून्यगृहे दीपवन्नि-
ष्फलमेव गतं नष्टमित्यर्थः ॥ तारुण्यमित्युपलक्षणं सर्वं जीवितमित्यर्थः ॥ " शा-
र्दूलविक्रीडितं वृत्तम् " ॥ ८७ ॥
 
-
 
एकस्यैव ज्ञानस्याधिकारिभेदेन भेदं दृष्टान्तोपन्यासपूर्वकमाह-
ज्ञानं सतां मानमदादिनाशनं केषांचिदेतन्मदमानकारणम् ॥
स्थानं विविक्तं यमिनां विमुक्तये कामातुराणामतिकामकारणम् ८८
ज्ञानमिति ॥ यत् ज्ञानं सच्छास्त्रजन्यं ज्ञानं सतां मानश्च मदश्च तावादी
येषां तेषां क्रोधादीनां नाशनं शमनं भवतीति शेषः, तदेव केषांचिदधमपुरुषाणां
मदमानयोः कारणं हेतुर्भवति ॥ तत्र दृष्टान्तः ॥ विविक्तं जनरहितमेकान्तमि-
ति यावत् ॥ विविक्तौ पूतविजनावित्यमरः ॥ यत् स्थानं यमिनां यमनियमादि-
मतां पुरुषाणां विमुक्तये मोक्षाय भवति तदेव कामातुराणां अति अत्यन्तं का-
मस्य मदनस्य कारणं भवति ॥ कामोद्दीपनसाधनं भवतीत्यर्थः ॥ " इन्द्रवंशा
वृत्तम् ॥ स्यादिन्द्रवंशा ततजैरसंयुतैरिति तल्लक्षणात् " ॥ ८८ ॥
 
संसारस्य वैचित्र्यं वर्णयन्नाह—
 
कचिद्वीणावादः क्वचिदपि च हाहेति रुदितं
कचिनारी रम्या क्वचिदपि जराजर्जरवपुः ॥
कचिद्विद्वद्गोष्ठी कचिदपि सुरामत्तकलहो
 
न जाने संसारः किममृतमयः किं विषमयः ॥ ८९ ॥
 
',
 
कचिदिति ॥ कचित् वीणाया वादो वादनं भवतीति शेषः ॥ एवं सर्व-
त्रापि बोध्यम् ॥ कचिदपि हा हा इति रुदितं रोदनं कचित् रम्या मनोहरा
नारी स्त्री, कचिदपि जरया जर्जरं वपुः शरीरं यस्या एवंविधा स्त्री, कचित्
विदुषां पण्डितानां गोष्ठी वार्ता क्वचिदपि सुरया मद्येन ये मत्तास्तेषां कलहः,
एवंभूतः संसारः किममृतमयः सुधाप्रचुरः किं विषमयः विषप्रचुर इत्यहं न
जाने ॥ एवंविधवैचित्र्यशालिनः संसारस्य दुर्निरूपत्वमिति भावः ॥ " शिख-
रिणी वृत्तम् " ॥ ८९ ॥
 
,
 
Digitized by
 
Google