शतकत्रयम् /143
This page has not been fully proofread.
४२
भर्तृहरिकृतं
परे ब्रह्मणि लीये लयं प्राप्नोमि ॥ सति ब्रह्मणि लये सर्वथा भेदनिवृत्त्या
प्रणामस्यासंभवादन्तिमोऽयं प्रणाम इति भावः ॥
वृत्तम् ॥ ८५ ॥
66
शार्दूलविक्रीडितं
यावच्छरीरादिस्वास्थ्यमस्ति तावदेवात्मनः श्रेयः संपादने यत्नो विधेय
-
इत्याह-
यावत्स्वस्थमिदं शरीरमरुजं यावज्जरा दूरतो
यावश्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः ॥
आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महा-
संदीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥ ८६ ॥
यावदिति ॥ इदं शरीरं अरुजं न विद्यते रुजा रोगो यस्मिन्तत् एवंविधं
रोगरहितं सत् यावत् स्वस्थमव्यग्रमस्ति, [ कलेवरगृहमिति पाठे ] शरीरगृह-
मित्यर्थः । जरा वार्धक्यमपि यावद्दूरतस्तिष्ठतीति शेषः, यावद्वार्धकं न प्राप्तमि-
त्यर्थः ॥ इन्द्रियाणां शक्तिः सामर्थ्यमपि यावदप्रतिहताऽकुण्ठिता, आयुषोऽपि
क्षयो नाशो यावन्न, तावदेव विदुषा पण्डितेन आत्मनः श्रेयसि कल्याणे महान्
प्रकृष्टो यत्नः कार्यः ॥ तथा हि भवने गृहे संदीप्ते अग्निना प्रज्वलिते सति तु
कूपस्य खननं प्रति उद्यम उद्योगः कीदृशः व्यर्थ इत्यर्थः ॥ [ प्रोद्दीप्ते भवने
इति, तथा हर्म्ये प्रज्वलिते चेत्यपि पाठौ ] क्वचित् ॥ प्रज्वलिते गृहे तच्छान्त्यर्थं
तत्काले कूपखननादि प्रयासो यथा व्यर्थस्तथा शरीरस्वास्थ्याद्यभावे श्रेय :-
संपादनयत्नो निष्फल इति भावः ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ ८६ ॥
66
यस्यामवस्थायां यदवश्यं संपादनीयं तदसंपादयतः पुरुषस्याऽऽयुषो वै य-
र्थ्यमिति सूचयन्नाह—
नाभ्यस्ता भुवि वादिवृन्ददमनी विद्या विनीतोचिता
खङ्गाद्यैः करिकुम्भपीठदलनैर्नाकं न नीतं यशः ॥
कान्ताकोमलपल्लवाधररसः पीतो न चन्द्रोदये
तारुण्यं गतमेव निष्फलमहो शून्यालये दीपवत् ॥ ८७ ॥
नाभ्यस्तेति ॥ येन भुवि पृथिव्यां विनीतानां विनयवतां पुरुषाणामुचिता
योग्या, तथा वादिनामनीश्वरादिवादिनां वृन्दं समूहं दमयति तच्छीला एवं-
विधा विद्या नाभ्यस्ता, तथा खड्गायैरसिधाराभिः कृत्वा करिणां गजानां कु-
म्भपीठानि गण्डस्थलानि तेषां दलनैर्विदारणैर्यशो नाकं स्वर्ग प्रति न नीतम्,
Digitized by
Google