Proofing

This page has not been fully proofread.

वैराग्यशतकम् ।
 
भिक्षाशित्वादिगुणविशिष्टस्य जनस्य जगति दौर्लभ्यमाह-
भिक्षाशी जनमध्यसंगरहितः स्वायत्तचेष्टः सदा
दानादानविरक्तमार्गनिरतः कश्चित्तपस्वी स्थितः ॥
रथ्याक्षीणविशीर्णजीर्णवसनैः संप्रोतकन्थाधरो
 
४१
 
निर्मानो निरहंकृतिः शमसुखाभोगैकबद्धस्पृहः ॥ ८४ ॥
भिक्षाशीति ॥ भिक्षामश्नातीति भिक्षाशी, तथा जनमध्ये यो संगस्तेन
रहितः, तथा स्वायत्ता स्वाधीना चेष्टा इन्द्रियव्यापारो यस्य स जितेन्द्रिय इति
यावत् ॥ तथा सदा सर्वकालं दानं सत्पात्रेभ्यो द्रव्यसमर्पणं आदानं द्रव्यग्रहणं
च ताभ्यां विरक्तो रहितो यो मार्गस्तस्मिन् निरतस्तत्परः, तथा रध्यायां
ग्रामाभ्यन्तरमार्गे क्षीणानि स्वल्पानि विशीर्णानि पतितानि जीर्णानि च यानि
वस्त्राणि तैः कृत्वा संप्रोता ग्रथिता या कन्था तस्या धरः, तथा निर्गतो
मानः परकृतसत्काराभिलाषो यस्य, तथा निर्गता नष्टा अहंकृतिरहंकारो यस्य
सः, तथा शमसुखं शान्तिसुखं तस्याऽऽभोगो विस्तारस्तस्मिन्बद्धा स्पृहा येन स
एवंविधः स्थितो निर्व्यापारतया तिष्ठन्नेवंविधस्तपस्वी कश्चिदेव जनो भवति
न बहव इत्यर्थः [ मनस्वीजन इति पाठे ] मनस्वी विवेकवानित्यर्थः ॥
" शार्दूलविक्रीडितं वृत्तम् " ॥ ८४ ॥
 
सांसारिके सुखे विरक्तः कश्चित्पुरुषः पृथिव्यादिपञ्चभूतेषु मातृत्वादिकं
परिकल्प्य तैः सहाऽऽरण्ये संवसंस्तत्प्रसादेन प्राप्तज्ञानस्तेषामेवोपकारं मन्वा-
नस्तानि प्रार्थयते—
 
मातर्मेदिनि तात मारुत सखे तेजः सुबन्धो जल
भ्रातर्व्योम निबद्ध एष भवतामग्रे प्रणामाञ्जलिः ॥
युष्मत्संगवशोपजातसुकृतोद्रेकस्फुरन्निर्मल-
ज्ञानापास्तसमस्तमोहमहिमा लीये परे ब्रह्मणि ॥ ८५ ॥
मातरिति ॥ हे मातः मातृवत्पोषकत्वेन मातृतुल्ये हे मेदिनि पृथ्वि, हे
तात पितृवत्सुखदत्वेन पितृतुल्य हे मारुत वायो, हे सखे सुहृद्वद्धितकारित्वेन
तत्तुल्य हे तेजः अग्ने, एवमुत्तरत्राप्यूहनीयम् ॥ हे सुबन्धो जल, हे भ्रातर्व्योम
आकाश, भवतामग्रे एष प्रणामयुक्तोऽञ्जलिर्हस्तसंपुटो निबद्धः कृतः ॥ [ अ-
न्त्यः प्रणामाञ्जलिरिति पाठे ] अन्ते भवोऽन्त्य इत्यर्थः ॥ युष्माकं संगवशेनो-
पजातो यः सुकृतस्योद्रेक आधिक्यं तेन स्फुरत्स्फुरद्रूपं यन्निर्मलं ज्ञानं तेनापास्तो
निरस्तः समस्तो मोहमहिमा संसारकारणीभूतोऽज्ञानरूपो यस्य एवंविधोऽहं
 

 
Digitized by Google
 
,