Proofing

This page has not been fully proofread.

४०
 
भर्तृहरिकृतं
 
सारासारविवेकवतः पुरुषस्य विवेकवशात्सर्वत्र ब्रह्मभावो भवतीति विष-
 
याक्रोशपूर्वकमाह-
 
यदासीदशानं स्मरतिंमिरसंस्कारजनितं
तदा दृष्टं नारीमयमिदमशेषं जगदपि ॥
इदानीमस्माकं पटुतरविवेकाञ्जनजुषां
 
समीभूता दृष्टित्रिभुवनमपि ब्रह्म मनुते ॥ ८२ ॥
 
यदेति ॥ यदा स्मरः काम एव तिमिरमन्धकारस्तस्य संस्कारस्तेन जनितमु-
त्पादितमज्ञानमासीत्तदा इदमशेषं सकलमपि जगत् नारीमयं स्त्रीप्रचुरमासीत् ॥
[ रामामयमित्यपि पाठः ] ॥ इदानीं पटुतरो यो विवेकः सदसद्विचारः स
एवाञ्जनं नेत्रानं तत् जुषन्ति सेवन्ते ते जुषस्तेषां सदसद्विवेकवतामस्माकं
समीभूता समत्वं प्राप्ता शत्रु मित्रौदासीन्यरहिता एकरूपेत्यर्थः ॥ एवंविधा दृष्टि-
स्त्रिभुवनमपि ब्रह्म मनुते मानयतीत्यर्थः ॥ [ तनुते इति पाठे ] विस्तारयति
करोतीत्यर्थः ॥ " शिखरिणी वृत्तम् " ॥ ८२ ॥
 
चित्तस्थैर्याभावे सकलं रम्यमपि वस्तु अरम्यमिव प्रतिभात्यतश्चित्तस्थैर्यमेव
संपादनीयमिति बोधयन्नाह—
 
रम्याश्चन्द्रमरीचयस्तृणवती रम्या वनान्तस्थली
 
रम्यः साधुसमागमः शमसुखं काव्येषु रम्याः कथाः ॥
कोपो पाहितबाष्पबिन्दुतरलं रम्यं प्रियाया मुखं
 
सर्व रम्यमनित्यतामुपगते चित्ते न किंचित्पुनः ॥ ८३ ॥
 
रम्या इति ॥ चन्द्रमरीचयश्चन्द्रकिरणा रम्याः सन्तीति शेषः ॥ एवमुत्त-
रत्रापि शेषः पूरणीयः ॥ तृणानि हरिततृणानि सन्ति यस्यां सा तृणवती
वनान्तस्थली वनमध्यस्थभूमिः रम्या, तथा सांधूनां समागमः संगतिः रम्या,
तथा शमसुखं शांतिसुखं रम्यम्, तथा काव्येषु कथा वार्ता रम्याः [ प्रणयिनां
रम्या मनोज्ञा गिर इति पाठे ] प्रणयिनां प्रेमवतां पुरुषाणां मनोज्ञा मनोहरा
गिरो वाचो रम्या इत्यर्थः ॥ तथा कोपेन क्रोधेनोपाहितः प्राप्तो यो बाष्प-
बिन्दुरश्रुबिन्दुस्तेन तरलं चञ्चलं प्रियायाः स्त्रिया मुखं रम्यम् ॥ एतत्सर्वं रम्य-
मपि चित्तेऽनित्यतामध्रुवतामस्थिरतामिति यावत् ॥ उपगते सति पुनः
किंचिदपि रम्यं न भवतीत्यर्थः ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ ८३॥
 
66
 
Digitized by
 
Google