शतकत्रयम् /140
This page has not been fully proofread.
वैराग्यशतकम् ।
.३९
कमिति ॥ भवबन्धेन संसारबन्धेन यद्दुःखं तस्य रचना तस्या विध्वंसो नाश-
स्तस्मिन् कालानलं प्रलयाग्निसदृशमेवंविधमेकं मुख्यं स्वस्याऽऽत्मनो यदानन्द-
पदमानन्दरूपं स्थानं तस्मिन् यः प्रवेशस्तस्य कलनं संपादनं मुक्त्वा शेषा
अवशिष्टा वेदाभ्यासादिना जीवनरूपाः वणिग्वृत्तयो वणिग्व्यापारा भवन्तीति
शेषः ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ ७९ ॥
आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्री-
रर्थाः संकल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूराः ॥
कण्ठाश्लेषोपगूढं तदपि च न चिरं यत्प्रियाभिः प्रणीतं
ब्रह्मण्यासत्तचित्ता भवत भवभयाम्भोधिपारं तरीतुम् ॥ ८० ॥
आयुरिति ॥ आयुर्जीवितं कल्लोलवज्जलतरङ्गवल्लोलं चञ्चलमस्तीति शेषः ॥
एवमुत्तरत्रापि बोध्यम् । यौवनश्रीस्तारुण्यशोभा कतिपयदिवसान् तिष्ठति
तच्छीला स्थायिनी, अचिरस्थायिनीत्यर्थः ॥ तथा अर्था धनानि संकल्पकल्पा
मनोरथतुल्याः, मनोरथवदाशुविनाशिन इत्यर्थः । तथा भोगपूरा विषयसुखप्रवाहाः
घनसमये वर्षाकाले या तडिद्विद्युल्लता तद्वद्विभ्रमो विलासो येषामेवंविधाः,
विद्युद्वदतिचञ्चला इत्यर्थः ॥ तथा प्रियाभिः स्त्रीभिः यत्प्रणीतं कृतं कण्ठस्या-
ऽऽश्लेष आलिङ्गनं तत्पूर्वकमुपगूढमावरणम् । भावे क्तः । तदपि चिरं चिरकालं
न, तस्मात् हे जनाः यूयं भवभयं संसारभयमेवाम्भोधिः समुद्रस्तस्य पारं परतीरं
तरीतुमुल्लङ्घ्य गन्तुं ब्रह्मणि आसक्तं चित्तं येषां ते एवंविधा भवत ॥
"
स्रग्धरा वृत्तम् ॥ ८० ॥
66
-
विचारवान्पुरुषो लोभाभिभूतो न भवतीति समुद्रदृष्टान्तपुरः सरमाह-
ब्रह्माण्डमण्डलीमात्रं किं लोभाय मनस्विनः ॥
शफरीस्फुरितेनाब्धेः क्षुब्धता जातु जायते ॥ ८१ ॥
ब्रह्माण्डेति ॥ ब्रह्माण्डस्य मण्डली समूहस्तन्मात्रं मनस्विनो विवेकिनः
पुरुषस्य लोभाय जायते किमपितु न जायते ॥ तत्र दृष्टान्तमाह शफरीति ॥
शफर्या मत्स्यविशेषस्य स्फुरितेन स्फुरणेनाब्धेः समुद्रस्य क्षुब्धता क्षोभो जातु
कदाचिदपि जायते किमपितु न जायते तथा ॥ [ न तु जायते इति पाठे ]
स्पष्टोऽर्थः ॥ "अनुष्टुब् वृत्तम्" ॥ ८१ ॥
Digitized by Google