Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
नीतिशतकम् ।

</ignore>

मूर्खजनचित्ताराधनं दुर्घटमिति बहुदृष्टान्तैः स्पष्टयति श्लोकद्वयेन-

<verse>
प्रसह्य मणिमुद्धरेन्मकरवक्त्रदंष्ट्रान्तरा-

त्समुद्रमपि संतरेत्प्रचलदूर्मिमालाकुलम् ॥

भुजङ्गमपि कोपितं शिरसि पुष्पवद्धारये -

न्
नतु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ४ ॥

</verse>

प्रसह्येति ॥ मकरो जलजन्तुविशेषस्तस्य वक्त्रं मुखं तत्संबन्धिन्यो या दंष्ट्रा -

स्तासामन्तरं मध्यं तस्मात् ॥ " दंष्ट्राङ्कुरादित्यपि पाठः " ॥ तन्मुखपतितमपि
मणि

मणिं
प्रसह्य हठादुद्धरेन्निष्कासयेत् ॥ तथा प्रचलन्त्यो या ऊर्मिमालास्तरङ्गप-

ङ्क्त
तयस्ताभिराकुलं व्याप्तं समुद्रमपि संतरेत्पारं गच्छेत् ॥ तथा कोपितं भुजङ्गं सर्
पं
हस्तेनोद्धृत्य शिरसि मस्तके पुष्पवत् कोऽपि धारयेत्, परंतु सत्यसति वा

वस्तुनि प्रतिनिविष्टमाविष्टं मूर्खजनस्य चित्तं नाराधयेन्न साधयेन्न चालयेदित्यर्थः ॥

पृथ्वी वृत्तम् ॥ " जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः" इति तल्लक्षणात् ॥

किंच—

<verse>
लभेत सिकतासु तैलमपि यत्नतः पीडय-

न्
पिबेश्च्च मृगतृष्णिकासु सलिलं पिपासार्दितः ॥

कदाचिदपि पर्यटञ्छशविषाणमासादये-

न्
नतु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ५ ॥

</verse>

लभेतेति ॥ कश्चित्सिकताः यत्नतस्तैलनिष्कासनोपायेन, पीडयन्मर्दयन्

सिकतासु वालुकास्वपि तैलं लभेत प्राप्नुयात् ॥ तथा पिपासार्दितस्तृषापीडितो

मृगतृष्णिकासु मृगजलेषु सलिलमुदकं कदाचित्पिबेत् ॥ कदाचित्पर्यटन्पर्य-

टनशीलः पुरुषः शशो मृगविशेषस्तस्य विषाणं शृङ्गं ब्रह्मणाऽसृष्टमप्यासाद-

येत्प्राप्नुयात्, परंतु प्रतिनिविष्टमूर्खजनचित्तं नाराधयेत् ॥ पूर्वोक्तमेव वृत्तम् ॥५॥

खलजनाः केनाप्युपायेन सन्मार्गे वर्तयितुमतिदुःशका इत्याह-

<verse>
व्यालं बालमृणालतन्तुभिरसौ रोद्धुं समुज्जृम्भते

छेत्तुं वज्रमणीञ्छरीषकुसुमप्रान्तेन संनह्यते ॥

माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते

नेतुं वाञ्छति यः खलान्पथि सतां सूक्तैः सुधास्यन्दिभिः ॥६॥
</verse>

व्यालमिति ॥ यः सतां पथि मार्गे सुधाममृतं स्यन्दन्ते प्रस्रवन्ति तच्छीलैः

सूक्तैः सुवचनैः खलान्दुर्जनान्नेतुं वाञ्छतीच्छति असौ व्यालं सर्पं दुष्टगजं

वा ॥ व्यालो दुष्टगजे सर्पे इति मेदिनी ॥ बालैः कोमलैर्मृणालतन्तुभिः कम-

Di

</pa
gitized by Google

e>