शतकत्रयम् /14
This page has not been fully proofread.
नीतिशतकम् ।
मूर्खजनचित्ताराधनं दुर्घटमिति बहुदृष्टान्तैः स्पष्टयति श्लोकद्वयेन-
प्रसह्य मणिमुद्धरेन्मकरवक्रदंष्ट्रान्तरा-
त्समुद्रमपि संतरेत्प्रचलदूर्मिमालाकुलम् ॥
भुजङ्गमपि कोपितं शिरसि पुष्पवद्धारये -
नतु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ४ ॥
प्रसह्येति ॥ मकरो जलजन्तुविशेषस्तस्य वक्रं मुखं तत्संबन्धिन्यो या दंष्ट्रा -
स्तासामन्तरं मध्यं तस्मात् ॥ " दंष्ट्राङ्कुरादित्यपि पाठः " ॥ तन्मुखपतितमपि
मणि प्रसह्य हठादुद्धरेन्निष्कासयेत् ॥ तथा प्रचलन्त्यो या ऊर्मिमालास्तरङ्गप-
तयस्ताभिराकुलं व्याप्तं समुद्रमपि संतरेत्पारं गच्छेत् ॥ तथा कोपितं भुजङ्गं सर्प
हस्तेनोद्धृत्य शिरसि मस्तके पुष्पवत् कोऽपि धारयेत्, परंतु सत्यसति वा
वस्तुनि प्रतिनिविष्टमाविष्टं मूर्खजनस्य चित्तं नाराधयेन्न साधयेन्न चालयेदित्यर्थः ॥
पृथ्वी वृत्तम् ॥ " जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः" इति तल्लक्षणात् ॥
किंच—
लभेत सिकतासु तैलमपि यत्नतः पीडय-
पिबेश्च मृगतृष्णिकासु सलिलं पिपासार्दितः ॥
कदाचिदपि पर्यटञ्छशविषाणमासादये-
नतु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ५ ॥
,
लभेतेति ॥ कश्चित्सिकताः यत्नतस्तैलनिष्कासनोपायेन, पीडयन्मर्दयन्
सिकतासु वालुकास्वपि तैलं लभेत प्राप्नुयात् ॥ तथा पिपासार्दितस्तृषापीडितो
मृगतृष्णिकासु मृगजलेषु सलिलमुदकं कदाचित्पिबेत् ॥ कदाचित्पर्यटन्पर्य-
टनशीलः पुरुषः शशो मृगविशेषस्तस्य विषाणं शृङ्गं ब्रह्मणाऽसृष्टमप्यासाद-
येत्प्राप्नुयात्, परंतु प्रतिनिविष्टमूर्खजनचित्तं नाराधयेत् ॥ पूर्वोक्तमेव वृत्तम् ॥५॥
खलजनाः केनाप्युपायेन सन्मार्गे वर्तयितुमतिदुःशका इत्याह-
व्यालं बालमृणालतन्तुभिरसौ रोद्धुं समुज्जृम्भते
छेत्तुं वज्रमणीञ्छरीषकुसुमप्रान्तेन संनह्यते ॥
माधुर्य मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते
नेतुं वाञ्छति यः खलान्पथि सतां सूक्तैः सुधास्यन्दिभिः ॥६॥
व्यालमिति ॥ यः सतां पथि मार्गे सुधाममृतं स्यन्दन्ते प्रस्रवन्ति तच्छीलैः
सूक्तैः सुवचनैः खलान्दुर्जनान्नेतुं वाञ्छतीच्छति असौ व्यालं सर्पं दुष्टगजं
वा ॥ व्यालो दुष्टगजे सर्पे इति मेदिनी ॥ बालैः कोमलैर्मृणालतन्तुभिः कम-
Digitized by Google