शतकत्रयम् /139
This page has not been fully proofread.
३८
भर्तृहरिकृतं
"
आकाशं वितानमुल्लोच ( भाषायां चांदवा इति ख्यातः ) " अस्त्री वि-
तानमुल्लोच इत्यमरः " ॥ अयमनुकूलोऽनिलो वायुः व्यजनं तालवृंतकम्
( पंखा इति ख्यातः ) " व्यजनं तालवृन्तकमित्यमरः तथा चन्द्रश्चन्द्रमाः
स्फुरन्देदीप्यमानो दीप इति ॥ " शिखरिणी वृत्तम् " ॥ ७७ ॥
त्रैलोक्याधिपतित्वमेव विरसं यस्मिन्महाशासने
तल्लुब्ध्वाऽऽसनवस्त्रमानघटने भोगे रतिं मा कृथाः ॥
भोगः कोऽपि स एक एव परमो नित्योदितो जृम्भते
यत्स्वादाद्विरसा भवन्ति विषयास्त्रैलोक्यराज्यादयः ॥ ७८ ॥
त्रैलोक्येति ॥ हे जन आत्मन्निति वा यस्मिन् महच्च तच्छासनं चोपनिष-
दुपदिष्टब्रह्मज्ञानं तस्मिन् सति त्रैलोक्यस्याधिपतित्वं स्वामित्वं विरसं सारही-
नमेव भवति तज्ज्ञानं लब्ध्वा त्वं आसनं वस्त्रं च मानश्च तेषां घटनं यस्मिंस्त-
स्मिन् भोगे रतिं प्रीतिं मा कृथाः मा कुरु ॥ तर्हि कस्मिन्भोगे प्रीतिः कर्त-
व्येत्यत्राह भोग इति ॥ परम उत्कृष्टो नित्यश्चासावुदितः शास्त्रेषु उदयं प्राप्तः
कथित इति यावत् ॥ एवंविधः कोऽप्यनिर्वचनीयः स एक एव भोगो
ब्रह्मज्ञानविषयको जृम्भते विकासते, यस्य स्वादाद्वहणात् त्रैलोक्यस्य राज्य-
मादि येषां ते एवंविधा विषया विरसा रसहीना भवन्ति ॥ " शार्दूलविक्री-
डितं वृत्तम्
" 110211
क्षणभङ्गुरान् सर्वान्सांसारिकान्व्यापारान्विहाय एकं ब्रह्मप्राप्तिसाधनभूतं
व्यापारमेव कुर्यादिति द्योतयन्नाह श्लोकद्वयेन—
किं वेदैः स्मृतिभिः पुराणपठनैः शास्त्रैर्महाविस्तरैः
स्वर्गग्रामकुटीनिवासफलदैः कर्मक्रियाविभ्रमैः ॥
मुक्त्वकं भवबन्धदुःखरचनाविध्वंसकालानलं
स्वात्मानन्दपदप्रवेशकलनं शेषा वणिग्वृत्तयः ॥ ७९ ॥
किं वेदैरिति । वेदैः कर्मकाण्डविषयकश्रुतिभिः, तथा स्मृतिभिर्धर्मार्थ-
कामप्रवर्तिकाभिः, तथा पुराणानां व्रतादिबोधकानां पठनानि तैः, तथा
महान् विस्तरः पूर्वपक्षादिरूपो येषु तैः शास्त्रैः गौतमीयादिभिः, तथा स्वर्ग-
रूपो ग्रामस्तस्मिन् या कुटी गृहं तस्मिन् यो निवासस्तस्य फलं ददतीति ते तैः
कर्मणां यागादिकर्मणां क्रियाकरणं तस्या विभ्रमा विलासास्तैश्च किम् न
किमपीत्यर्थः ॥ एतैः पूर्वोक्तैः सर्वैर्वृत्तिसंपादनमतितुच्छभिति बोधयन्नाह - मुक्त्वै-
Digitized by Google