शतकत्रयम् /138
This page has not been fully proofread.
वैराग्यशतकम् ।
३७
दिङ्मण्डलं भ्रमसि, भ्रान्त्वाऽपि जातु कदाचित् विमलं निर्मलं तथा
आत्मने हितमात्मनीनं " आत्मन् विश्वजनभोगोत्तरपदात्ख" इति खप्रत्ययः ॥
तद्ब्रह्म न स्मरसि तत्किम् ॥ येन निर्वृतिं मोक्षसुखमेषि प्राप्नोषि ॥ मानस-
चापलेनेत्येकं पदं वा कर्तव्यं तत्पक्षे जनेति संबोधनं देयम् ॥ भ्रान्त्वेत्यत्र
[ भ्रान्त्येति पाठे ] भ्रान्त्याऽपि न स्मरसीत्यन्वयः ॥ " वसन्ततिलका वृत्तम्" ॥
सांसारिकव्यापारैः खिन्नस्य पुरुषस्याऽऽक्रोशपूर्वकमुक्तिमाह-
रात्रिः सैव पुनः स एव दिवसो मत्वाऽबुधा जन्तवो
धावन्त्युद्यमिनस्तथैव निभृतप्रारब्धतत्तत्क्रियाः ॥
व्यापारैः पुनरुक्तभुक्तविषयैरेवं विधेनामुना
संसारेण कदर्थिताः कथमहो मोहान्न लज्जामहे ॥ ७६ ॥
रात्रिरिति ॥ सैव रात्रिः पुनः स एव दिवस इति मत्वा कालक्रमेण
गतागतयो रात्रिदिवसोरुद्योगं विना व्यर्थत्वं बुद्धेत्यर्थः ॥ उद्यमिन उद्योग-
वन्तस्तथैव निभृता धृताः पोषिता वा प्रारब्धाश्च तास्ताः क्रिया यैस्ते एवंविधा
अबुधा जन्तवः प्राणिनः पुनरुक्ताश्च ते भुक्ताश्च विषया येषु तैर्व्यापारैर्नि -
मित्तैः कृत्वा मोहात् धावन्ति, एवंविधेनामुना संसारेण कदर्थिता दुःखिता
अपि वयं कथं न लज्जामहे अपि तु लज्जामह इत्यर्थः ॥ अहो इति खेदे ॥
" शार्दूलविक्रीडितं वृत्तम् " ॥ ७६ ॥
66
वैराग्यवतः पुरुषस्य नृपतेश्च साम्यदर्शनेन राजैश्वर्यस्यातितुच्छत्वं बोधय-
न्नाह द्वाभ्याम् —
मही रम्या शय्या विपुलमुपधानं भुजलता
वितानं चाकाशं व्यजनमनुकूलोऽयमनिलः ॥
स्फुरद्दीपश्चन्द्रो विरतिवनितासंगमुदितः
सुखं शान्तः शेते मुनिरतनुभूतिर्नृप इव ॥ ७७ ॥
.
महीति ॥ मुनिः शान्तः सन् नृप इव सुखं यथा स्यात्तथा शेते निद्राति ॥
कीदृशो मुनिर्नृपश्च विरतिर्वैराग्यमेव वनिता स्त्री तस्याः संगेन मुदितो हर्षितः
पक्षे विशेषेण रतिः प्रीतिर्यस्यां एवंविधा या वनिता तस्याः संगेन मुदितः ॥
पुनः कीदृशः ॥ न तन्वी अल्पा भूतिरैश्वर्यं पक्षे राज्यलक्ष्मीर्यस्यैवंविधः ॥
ऐश्वर्यमेवाह महीति ॥ मही पृथ्वी यस्य मुनेः रम्या मनोहरा शय्या, तथा
भुजलता बाहुलता विपुलं विस्तीर्ण उपधानमुपधीयते आरोप्यते शिरो यत्र
तत् उपबर्हः (भाषायां उशीति ख्याता ) " उपधानं तूपबर्ह इत्यमर:
Digitized by
Google
"