शतकत्रयम् /137
This page has not been fully proofread.
३६
भर्तृहरिकृतं
भक्तिर्भवे मरणजन्मभयं हृदिस्थं
स्नेहो न बन्धुषु न मन्मथजा विकाराः ॥
संसर्गदोषरहिता विजना वनान्ता
वैराग्यमस्ति किमतः परमर्थनीयम् ॥ ७३ ॥
भक्तिरिति ॥ यस्य भवे भक्तिरस्तीति शेषः ॥ एमुत्तरत्रापि यथायोग्यं
शेषः पूरणीयः ॥ हृदि अन्तःकरणे तिष्ठतीति हृदिस्थं, मरणं च जन्म च
तयोर्भयम् ॥ तथा बन्धुषु स्नेहः प्रीतिर्न ॥ तथा मन्मथात्कामाज्जाता मन्मथ-
जा विकारा न ॥ तथा विजना जनरहिता अतएव संसर्गाद्यो दोषस्तेन
रहिता एतादृशा वनान्ताः सन्ति अतः परं तस्य पुरुषस्य वैराग्यं अर्थनीयं
प्रार्थनीयं किमस्ति न किमपीत्यर्थः ॥ " वसन्ततिलका वृत्तम्" ॥ ७३ ॥
विषयत्यागपूर्वकं ब्रह्मचिन्तनमेव श्रेयस्करं नान्यदिति चित्तं प्रति बोधयन्नाह
श्लोकद्वयेन-
तस्मादनन्तमजरं परमं विकासि
त चिन्तय किमेभिरसद्विकल्पैः ॥
यस्यानुषङ्गिण इमे भुवनाधिपत्य-
भोगादयः कृपणलोकमता भवन्ति ॥ ७४ ॥
तस्मादिति ॥ तस्माद्धेतोः, हे जन न विद्यतेऽन्तो यस्य तदन्तमन्तरहि-
तम्, परममुत्कृष्टं विकासि प्रकाशरूपम्, [विशोकमिति पाठे ] शोकरहितमि-
त्यर्थः ॥ एतादृशं तदुपनिषदादि प्रतिपादितं ब्रह्म चिन्तय, एभिः असद्वि-
कल्पैः देहभावादिविकल्पैः किम् ॥ तत्किम् ॥ यस्माद्धतोः कृपणलोकानां
मता मान्या इमे भुवनस्य त्रिभुवनस्याऽऽधिपत्यं स्वामित्वं तत्संबन्धिनो
भोगादयः पदार्था यस्याssनुषङ्गिणोऽनुयायिनो भवन्ति ॥ यस्यानुयायिनः सर्वे
भोगा भवन्ति तद्ब्रह्म चिन्तनीयमित्यर्थः ॥ " वसन्ततिलका वृत्तम् " ॥ ७४ ॥
पातालमाविशसि यासि नभो विलङ्घय
दिमण्डलं भ्रमसि मानस चापलेन ॥
भ्रान्त्वापि जातु विमलं कथमात्मनीनं
तद्रा न स्मरसि निर्वृतिमेषि येन ॥ ७५ ॥
पातालमिति ॥ हे मानस हे चित्त त्वं चापलेन चापल्येन पातालमावि-
शसि प्रविशसि, तथा नभ आकाशं विलङ्घयोलङ्घय यासि गच्छसि तथा
Digitized by
Google