शतकत्रयम् /136
This page has not been fully proofread.
वैराग्यशतकम् ।
३५
दिसंपन्नः, पाणिः कर एव पात्रं भाजनं यस्य एवंविधः, दिश एवाम्बरं वस्त्रं
यस्य एवंविधोऽहम् हे शंभो कर्मणां निर्मूलनं नाशनं तत्र क्षमः समर्थ
एतादृशः कदा भविष्यामि " अनुष्टुब् वृत्तम्" ॥ ७० ॥
संपत्त्यादीनामतितुच्छत्वं बुद्ध्वा भक्त्यादिपुरःसरं वैराग्यमेव संपादनीय-
मित्यर्थं बोधयन्नाह प्राप्ता इत्यादिश्लोकत्रयेण -
प्राप्ताः श्रियः सकलकामदुघास्ततः किं
दत्तं पदं शिरसि विद्विषतां ततः किम् ॥
संमानिताः प्रणयिनो विभवैस्ततः किं
कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ॥ ७१ ॥
प्राप्ता इति ॥ सकलाश्च ते कामास्तान् दुहन्ति ताः सकलकामपूरणसम-
र्था इत्यर्थः ॥ एवंविधाः श्रियः प्राप्ताः ततः किं न किमपि फलमित्यर्थः ॥
एवमुत्तरत्र सर्वत्र बोध्यम् ॥ तथा विद्विषां शत्रूणां शिरसि पदं चरणं दत्तं ततः
किम्, तथा प्रणयिनः सेवकाः विभवैर्गजाद्यैश्वर्यैः संमानितास्ततः किम्,
तथा तनुभृतां प्राणिनां तनुभिः शरीरैः कल्पं कल्पपर्यंतं स्थितं ततः किम् ॥
" वसन्ततिलका वृत्तम्" ॥ ७१ ॥
जीर्णा कन्था ततः किं सितममलपटं पट्टसूत्रं ततः कि-
मेका भार्या ततः किं हयकरिसुगणैरावृतो वा ततः किम् ॥
भक्तं भुक्तं ततः किं कदशनमथवा वासरान्ते ततः किं
व्यक्तज्योतिर्न चान्तर्मथितभवभयं वैभवं वा ततः किम् ॥ ७२ ॥
जीर्णेति ॥ जीर्णा कन्था लब्धेति शेषः ॥ एवमुत्तरत्रापि शेषः पूरणीयः ॥
ततः किं तेन किं सुखादि न किमपीत्यर्थः ॥ एवमुत्तरत्रापि बोध्यम् ॥ सितं
शुभ्रं अमलं निर्मलं पटं वस्त्रमथवा पट्टसूत्रं दुकूलादिकं ततः किम् ॥
" पटश्चित्रपटे वस्त्रेऽस्त्रीति मेदिनी " एका अद्वितीया भार्या पत्नी ततः
किम् ॥ हया अश्वाः करिणो गजाश्च तेषां शोभना गणाः समूहास्तैरावृतो
व्याप्तो वा ततः किम् ॥ भक्तमोदनं भुक्तं ततः किम् ॥ भिस्सा स्त्री भक्त-
मन्धोऽन्नमोदनोऽस्त्री सदीदिविरित्यमरः ॥ अथवा वासरान्ते दिनान्ते कद-
शनं कुत्सितभोजनं ततः किम् ॥ तथा व्यक्तं प्रत्यक्षं ज्योतिर्ब्रह्म यस्मिंस्तथा-
विधं, मथितं भवभयं संसारभयं येनैवंविधं अन्तर्हृदये वैभवं वा न ततः
किम् ॥ स्रग्धरा वृत्तम् " ॥ ७२ ॥
"
"
Digitized by
Google