Proofing

This page has not been fully proofread.

३४
 
भर्तृहरिकृतं
 
आयाससाध्यपरपिण्डोपजीवनापेक्षया हिमवत्संबन्धिवनाश्रयणेन जीवनं
 
वरमित्याह-
 
गङ्गातरङ्गहिमशीकरशीतलानि
 
विद्याधराभ्युषितचारुशिलातलानि ॥
 
स्थानानि किं हिमवतः प्रलयं गतानि
 
यत्सावमानपरपिण्डरता मनुष्याः ॥ ६८ ॥
 
गङ्गातरङ्गेति ॥ हिमवतो हिमाद्रेः स्थानानि प्रलयं नाशं गतानि किम्,
यद्यस्माद्धेतोः मनुष्याः अवमानेनापमानेन सहितो यः परपिण्डोऽन्यदत्तपि-
ण्डस्तस्मिन् रता भवन्तीति शेषः ॥ कीदृशानि स्थानानि ॥ गङ्गाया भागी-
रथ्यास्तरङ्गा वीचयस्तत्संबन्धिनो ये हिमशीकराः शीताम्बुकणास्तैः शीत-
लानि ॥ तथा विद्याधरैरध्युषितान्यधिष्ठितानि चारूणि शिलातलानि येषां
तानि ॥ " वसन्ततिलका वृत्तम् " ॥ ६८ ॥
 
आशुविनाशिनि शरीरे आशा न विधेयेति मेर्वादिदशाकथनपूर्वक-
 
-
 
माह -
 
यदा मेरुः श्रीमान्निपतति युगान्ताग्निदलितः
समुद्राः शुष्यन्ति प्रचुरमकरग्राहनिलयाः ॥
धरा गच्छत्यन्तं धरणिधरपादैरपि धृता
 
शरीरे का वार्ता करिकरभकर्णाग्रचपले ॥ ६९ ॥
 
यदेति ॥ युगान्ते योऽग्निस्तेन दलितः श्रीमान् मेरुर्यदा निपतति ॥
यदेत्यस्य सर्वत्र संबन्धः ॥ यदा प्रचुरा ये मकरा ग्राहाश्च तेषां निलयो गृहं
येषु ते एवंविधाः समुद्रा अपि शुष्यन्ति ॥ यदा धरणिधराणां पर्वतानां
पादैर्धृताऽपि धरा अन्तं नाशं गच्छति ॥ तदा करिणो गजस्य कलभः
शिशुस्तस्य कर्णां तद्वच्चपले चञ्चले एतादृशे शरीरे का वार्ता कथा न
कापीत्यर्थः ॥ " शिखरिणी वृत्तम् " ॥ ६९ ॥
 
संसारहेतुभूतानि नानाविधानि कर्माण्याचरन्नतिखिन्नः पुरुषो वैराग्यपू-
र्वकं स्वस्मिन् कर्मनिर्मूलनसामर्थ्यं प्रार्थयन्नाह -
 
एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगंबरः ॥
कदा शंभो भविष्यामि कर्मनिर्मूलनक्षमः ॥ ७० ॥
 
एकाकीति ॥ एकाकी संगरहितः निःस्पृह आशारहितः, शान्तः शमा-
 
Digitized by
 
Google