Proofing

This page has not been fully proofread.

वैराग्यशतकम् ।
 
३३
 
स्वहितमिच्छता पुरुषेण अचिरस्थायित्वेन तुच्छत्वबुद्ध्या हर्म्यादिकं सर्वे
विहाय वनमेवाऽऽश्रयणीयमिति साधुवृत्तान्तप्रदर्शनेनाह—
 
रम्यं हर्म्यतलं न किं वसतये श्राव्यं न गेयादिकं
किंवा प्राणसमासमागमसुखं नैवाधिकं प्रीतये ॥
किंतुछ्रान्तपतत्पतङ्गपवनव्यालोलदीपाङ्कुर-
 
च्छायाचश्ञ्चलमाकलय्य सकलं सन्तो वनान्तं गताः ॥ ६६॥
 
रम्यमिति ॥ वसतये निवासाय हर्म्यतलं गृहतलं रम्यं मनोहरं न किम्,
तथा गेयादिकं गानादिकं श्राव्यं श्रवणीयं न किम्, वाऽथवा प्राणसमा
प्राणतुल्या प्रिया तस्याः समागमस्य सुखं प्रीतये अधिकं नैव किम् ॥ किंतु
उद्भ्रान्ता भ्रममाणाः पतन्तश्च पतङ्गाः शलभास्तत्संबन्धी यः पवनो वायुस्तेन
व्यालोलाश्चञ्चला दीपाङ्कुरास्तेषां छाया कान्तिस्तद्वच्चञ्चलं सकलं पूर्वोक्तमाक-
लय्य ज्ञात्वा सन्तः साधवो वनान्तं वनमध्यं गताः स्मः "शार्दूलविक्रीडितं
वृत्तम् " ॥ ६६ ॥
 
अनायासेन जीवनसाधनेषु कन्दादिषु विद्यमानेषु केवलं जीवनेच्छया
खलाराधनं सुतरां न कर्तव्यमित्याशयेनाह --
 
किं कन्दाः कन्दरेभ्यः प्रलयमुपगता निर्झरा वा गिरिभ्यः
प्रध्वस्ता वा तरुभ्यः सरसफलभृतो वल्कलिन्यश्च शाखाः ॥
वीक्ष्यन्ते यन्मुखानि प्रसभमुपगतप्रश्रयाणां खलानां
दुःखोपात्ताल्पवित्तस्मयवशपवनानर्तितभ्रूलतानि ॥ ६७ ॥
 
किं कन्दा इति ॥ कन्दरेभ्यो दरीभ्यः कन्दाः जीवनसाधनभूताः प्रलयं
नाशमुपगताः किम्, तथा गिरिभ्यः पर्वतेभ्यो निर्झरा उदकप्रवाहाः प्रलयमु-
पगताः किम् ॥ वाऽथवा तरुभ्यो वृक्षेभ्यो रसेन सहितानि फलानि बि-
भ्रति ताः तथा वल्कलिन्यो वल्कलवत्यश्च शाखाः प्रध्वस्ता नष्टाः किम् ॥
तदुक्तं भागवते द्वितीयस्कन्धे - "चीराणि किं पथि न संति दिशन्ति भिक्षां नैवा-
ङ्घ्रिपाः परभृतः सरितोऽप्यशुष्यन् ॥ रुद्धा गुहाः किमजितोऽवति नोपसन्ना-
कस्माद्भजन्ति कवयो धनदुर्मदान्धान्" इति । यद्यस्माद्धेतोः प्रसभं सवेगं
यथास्यात्तथा अपगतः प्रश्रयो विनयो येषां तेषां खलानां दुःखेनोपात्तं प्राप्तमल्पं
वित्तं तस्य स्मयो गर्वः स एव पवनो वायुरोगस्तेन नर्तिता भ्रूलता येषु तानि
एवंविधानि मुखानि लोकैर्वीक्ष्यन्तेऽवलोक्यन्ते ॥ " स्रग्धरा वृत्तम्" ॥६७॥
 
Digitized by
 
Google