Proofing

This page has not been fully proofread.

३२
 
भर्तृहरिकृतं
 
सत्यपि वैराग्यदशायां स नश्यतीति भावः ॥ तदुक्तं भारते सनत्सुजातीये ॥
पितामहोऽस्मि स्थविरः पिता पुत्रश्च भारत । ममैव यूयमात्मस्था न मे यूयं
न वो वयम् ॥ १ ॥ " अनुष्टुब् वृत्तम् " ॥ ६३ ॥
 
66
 
स्वस्य वैराग्यस्थिति परस्परं संवादमुखेन वर्णयति -
बाले लीलामुकुलितममी मन्थरा दृष्टिपाताः
किं क्षिप्यन्ते विरम विरम व्यर्थ एष श्रमस्ते ॥
संप्रत्यन्ये वयमुपरतं बाल्यमास्था वनान्ते
 
क्षीणो मोहस्तृणमिव जगज्जालमालोकयामः ॥ ६४ ॥
 
बाले इति ॥ हे बाले ते लीलाया मुकुलितं कुब्बलितं यथा स्यात्तथा,
अमी मन्थरा मन्दगामिनो दृष्टिपाता अस्मासु त्वया किं क्षिप्यन्ते ॥ विरम
विरम, एष ते श्रमो व्यर्थ एवास्ति ॥ कुतः ॥ संप्रतीदानीं वयमन्येऽभूम ॥
अस्माकं बाल्यमुपरतं शांतं गतमिति यावत् ॥ अस्माकमास्था वनान्ते
आसीत् ॥ मोहः क्षीणो नष्टोऽभूत् ॥ जगज्जालं तृणमिवालोकयामः पश्यामः ॥
एवंविधावस्थायां तव कटाक्षक्षेपणं निरर्थकमिति भावः ॥ " मन्दाक्रान्ता
वृत्तम्" ॥ ६४ ॥
 
तामेव वैराग्यस्थिति प्रकारान्तरेण वर्णयति-
 
इयं बाला मां प्रत्यनवरतमिंदीवरदल-
प्रभाचोरं चक्षुः क्षिपति किमभिप्रेतमनया ॥
गतो मोहोऽस्माकं स्मरकुसुमबाणव्यतिकर-
 
ज्वरज्वाला शान्ता तदपि न वराकी विरमति ॥ ६५ ॥
 
इयमिति ॥ इयं बाला । इन्दीवरस्य नीलकमलस्य पत्रं पर्ण तस्य प्रभ
कान्ति चोरयतीति चोरं चक्षुर्मी प्रति क्षिपति प्रेरयति, अनया किमभिप्रेतं किं
वांछते ॥ अस्माकं मोहो गतोऽस्ति ॥ स्मरस्य कामस्य कुसुमबाणाः पुष्प-
शरास्तेषां व्यतिकरो मिश्रीभावः संबन्ध इति यावत् ॥ तेन यो ज्वरस्तस्य
ज्वाला शिखा शान्ता आसीदिति शेषः ॥ स्मरशबरबाणेति पाठे स्मर एव
शबर इत्यर्थः ॥ तदपि तथापि वराकी अतितुच्छा इयं न विरमति विरामं न
प्राप्नोति ॥ सति तादृशे दृढे वैराग्ये कामिन्याः कटाक्षपातादिकं सर्व व्यर्थ -
मिति भावः ॥ " शिखरिणी वृत्तम् " ॥ ६५ ॥
 
Digitized by
 
Google