शतकत्रयम् /132
This page has not been fully proofread.
वैराग्यशतकम् ।
३१
विरमतेति ॥ हे बुधा यूयं क्षणभङ्गुरात्क्षणध्वंसिनो योषितां यः संगस्तद्रूपात्सु-
खाद्विरमत विरक्ता भवथ । स्त्रीसंगमे इच्छा चेत्तदर्हा स्त्रिय आह - करुणा सर्व-
भूतदया च मैत्री सर्वभूतेषु मित्रता च प्रज्ञा आत्मज्ञानं च ता एव वधूजनाः
स्त्रीजनास्तासां संगमं संगतिं कुरुत ॥ यतः हारेण मुक्ताहारेणाक्रान्तं व्या-
तमेवंविधं घनं निबिर्ड स्तनमण्डलं कुचमण्डलमर्थात्स्त्रिया एव अथवा रणन्ती
शब्दायमाना मणियुक्ता मेखला काञ्ची यस्मिन्नेवंविधं श्रोणीबिम्बं कटिमण्डलं ॥
" बिम्बं तु प्रतिबिम्बेsपि मण्डलं पुंनपुंसकमिति मेदिनी " ॥ नरके शरणं
रक्षितृ न भवति खलु निश्चयेन ॥ " हरिणी वृत्तम् " ॥ ६१ ॥
निःस्पृहा लक्ष्मीमप्यतितुच्छत्वेन गणयन्तीत्याह-
मातर्लक्ष्मि भजस्व कंचिदपरं मत्काङ्क्षिणी मास्म भू-
भगेभ्यः स्पृहयालषो न हि वयं का निस्पृहाणामसि ॥
सद्यः स्यूतपलाशपत्रपुटिकापात्रे पवित्रीकृते
मिक्षासकुभिरेव संप्रति घयं वृत्तिं समीहामहे ॥ ६२ ॥
मातरिति ॥ हे मातर्लक्ष्मि त्वं अपरमन्यं कंचिद्भजस्व, मत्काङ्क्षिणी म-
दिच्छावती मास्मभूर्मा भव ॥ हि यस्माद्वयं भोगेभ्यो भोगान् [स्पृहेरीप्सित
इति संप्रदानत्वम् ] ॥ स्पृहयालवो वाञ्छावन्तो न त्वं निस्पृहाणां काऽसि ॥
अभिलषणीया न भवसीत्यर्थः ॥ संप्रतीदानीं वयं सद्यस्तत्कालं पवित्रीकृते
स्थूता कृतसीवना या पलाशपत्राणां पुटिका संपुटकः स एव पात्रं तस्मिन्
भिक्षया प्राप्ता ये सक्तवस्तैरेव वृत्तिं जीविकां समीहामहे वाञ्छामहे ॥ अतो
नास्माकं तवोपयोग इति भावः ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ ६२ ॥
अवैराग्यदशायां परस्परम कृत्रिम सुहृत्त्वाद्यभिनिवेशेन आवयोरभेदबुद्धिरा-
सीदिदानीं वैराग्यदशायां तादृशाभिनिवेशाभावेन भेदबुद्धिर्जातेत्यमुमर्थमुभयोः
प्रश्नोत्तरमुखेनाह-
यूयं वयं वयं यूयमित्यासीन्मतिरावयोः ॥
किं जातमधुना मित्र यूयं यूयं वयं वयम् ॥ ६३ ॥
यूयमिति ॥ हे मित्र यूयं वयमेव वयं यूयमेवेति पूर्वमावयोर्मतिरासीत् ॥
मित्रयोः परस्परं सुहृत्त्वाभिनिवेशेनाभेदबुद्धिरासीदित्यर्थः ॥ अधुना किं जा-
तम् ॥ यूयं यूयमेव वयं वयमेवेति बुद्धिर्जाता ॥ इदानीं सुहृत्त्वाभिनिवेशाभा-
वेन परस्परं भेदबुद्धिर्जातेत्यर्थः ॥ तस्मादवैराग्यदशायां सुहृत्त्वाद्यभिनिवेशे
Digitized by
Google