Proofing

This page has not been fully proofread.

३०
 
भर्तृहरिकृतं
 
बन्धि भुवस्तासामासङ्गं सङ्गतिमङ्गीकुरु स्वीकुरु ॥ गङ्गातीरनिवासं कुर्वि-
त्यर्थः ॥ किंचित्कालं विषयोपभोगादिकं कृत्वा चरमे वयसि तथा करिष्या-
मी ति मनुषे चेदतिचपले तस्मिन्नायुषि विश्वास मा कुर्वित्याशयेनाह - को वेति —
वीचिषु जलतरङ्गेषु तथा बुद्बुदेषु जलविकारेषु तथा तडिल्लेखासु विद्युल्लतासु
तथा श्रीषु संपत्सु । [स्त्रीष्वित्यपि कचित्पाठः, ] ज्वालाप्रेषु वह्निशिखाग्रेषु,
तथा पन्नगेषु सर्पेषु, तथा सरिद्वेगेषु नदीवेगेषु को वा प्रत्ययो विश्वास: न
कोऽपीत्यर्थः ॥ अयं भावः ॥ तरङ्गादयः पदार्था यथाऽतिचपलास्तद्वदायु-
षोऽतिचपलत्वेन तस्मिन् विश्वासो न कार्य इति । अत्र दृष्टान्ततयोपन्यस्तैस्त-
रङ्गादिभिस्तत्सदृशातिचपलस्य दाष्टन्तिकस्याऽऽयुषो लाभो बोध्यः ॥ " शा-
र्दूलविक्रीडितं वृत्तम् " ॥ ९९ ॥
 
सति तथाविधे ऐश्वर्ये संसारसुखाभिलाषं कुरु नोचेदीश्वरध्यानमेव कु-
विति स्वचितं प्रति बोधयन्नाह -
 
अग्रे गीतं सरसकवयः पार्श्वतो दाक्षिणात्याः
पृष्ठे लीलावलयरणितं चामरग्राहिणीनाम् ॥
यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वं
 
नो चेश्वेतः प्रविश सहसा निर्विकल्पे समाधौ ॥ ६० ॥
 
पार्श्वतः
 
पृष्ठे पृष्ठ-
 
अग्रे इति ॥ हे चेतस्त्वं अग्रे अग्रभागे गीतं गानम्, तथा
पार्श्वभागे दाक्षिणात्याः दक्षिणदिग्भवाः सरसा: रसिकाः कवयः,
भागे चामरं प्रकीर्णकं गृह्णन्ति तास्तासां स्त्रीणां लीलया वलयानां कङ्कणानां
रणितं शब्दः, यदि एवं पूर्वोक्तमस्ति तर्हि भवस्य संसारस्य रसस्तस्याऽऽस्वा-
दने लम्पटत्वं लोलुपत्वं कुरु, नोचेत् पूर्वोक्तेश्वर्याभावे सहसा शीघ्रमेव निर्वि-
कल्पे द्वैतभ्रमरहिते समाधौ प्रविश प्रवेशं कुरु ॥ समाधिमेवाश्रयस्वेत्यर्थः ॥
66 मन्दाक्रान्ता वृत्तम् " ॥ ६० ॥
 
नरके तरणे इच्छा चेत्ख्यादि सुखं हित्वा करुणादिसेवनमेवावश्यं कर्त-
* यमिति सूचयन्नाह—
 
विरमत बुधा योषित्संगात्सुखात्क्षणभङ्गुरा-
 
त्कुरुत करुणामैत्री प्रशावधूजनसंगमम् ॥
 
न खलु नरके हाराक्रान्तं घनस्तनमण्डलं
 
शरणमथवा श्रोणीबिम्बं रणन्मणिमेखलम् ॥ ६१ ॥
 
Digitized by
 
Google