शतकत्रयम् /130
This page has not been fully proofread.
माह-
वैराग्यशतकम् ।
२९
निराबाधिका वने स्थितिरेव योग्येति मन्वानस्य कस्यचित्पुरुषस्योक्ति-
पुण्यैर्मूलफलैः प्रिये प्रणयिनि प्रीतिं कुरुष्वाधुना
भूशय्या नववल्कलैरकरणैरुत्तिष्ठ यामो वनम् ॥
क्षुद्राणामविवेकमूढमनसां यत्रेश्वराणां सदा
चित्तव्याध्यविवेकविह्वलगिरां नामापि न श्रूयते ॥ ५८
पुण्यैरिति ॥ प्रणयिनि प्रणयवति प्रिये इति स्त्रियाश्चित्तवृत्तेर्वा संबोध-
नम् ॥ पुण्यैः शोभनैः ॥ " पुण्यं शोभने त्रिष्विति मेदिनी " ॥ मूलानि च
फलानि च तैः, तथा न क्रियन्त इत्यकरणैरकृत्रिमैरित्यर्थः ॥ भूशय्या च
नववल्कलानि च तैः कृत्वा प्रीतिं मनः संतोषं कुरुष्व " प्रीतिर्योगान्तरे
प्रेम्ण स्मरपत्नीमुदोः स्त्रियामिति मेदिनी " ॥ अनायासेनैव तत्प्राप्तिस्थानमाह
उत्तिष्ठेति ॥ अधुना उत्तिष्ठ, वयं तत् वनमेव यामो गच्छामः ॥ तत्किम् ॥
यत्र यस्मिन्वने क्षुद्राणां तुच्छानामीश्वराणां धनिकानां नामाऽपि न श्रूयते ॥
कीदृशानामीश्वराणाम् । अविवेकेन मूढं मोहितं मनो येषां तेषाम् ॥ तथा
सदा सर्वकाले चित्तव्याधिर्मनोव्याधिः अविवेकश्च ताभ्यां विह्वला व्याप्ता
गीर्वाणी येषां तेषाम् ॥ [ वित्तध्यानविवेकविह्वलधियामिति पाठे ] वित्तस्य
धनस्य ध्यानं चिन्ता विवेको विचारस्ताभ्यां तत्प्राप्त्युपायविह्वला व्याकुला
धीर्बुद्धिर्येषां तेषामित्यर्थः ॥ [ चित्तव्याधिविकारविह्वलंगिरामिति पाठे ] चि-
तव्याधिर्मनोव्याधिस्तद्रूपो यो विकारस्तेनेत्यर्थः ॥ " शार्दूलविक्रीडितं
वृत्तम् " ॥ ९८ ॥
सांसारिकविषयसुखभोगेच्छां परित्यज्य शिवभक्त्यादिकं कुर्विति स्वचेतः
प्रतिबोधयन्नाह—
मोहं मार्जय तामुपार्जय रतिं चन्द्रार्धचूडामणौ
चेतः स्वर्गतरङ्गिणीतटभुवामा संगमङ्गीकुरु ॥
को वा वीचिषु बुद्धदेषु च तडिल्लेखासु च स्त्रीषु च
ज्वालाग्रेषु च पन्नगेषु च सरिद्वेगेषु च प्रत्ययः ॥ ५९ ॥
मोहमिति ॥ हे चेतस्त्वं मोहं मार्जय, तथा चन्द्रस्यार्धः शकलं कलेति
यावत् ॥ स एव चूडामणिः शिरोभूषणं यस्य तस्मिन् शिवे तां रतिं प्रीति-
मुपार्जय संपादय कुर्वित्यर्थः ॥ तथा स्वर्गतरङ्गिणी भागीरथी तस्यास्तटस-
Digitized by Google