शतकत्रयम् /13
This page has not been fully proofread.
भर्तृहरिकृतं
एवंहि पुरा वृत्तम् ॥ जरारोगादिनाशकमायुर्वर्धकं किमपि फलं कुतश्चि-
द्ब्राह्मणाद्भर्तृहरिणा लब्धं तत्स्वपत्न्यै राज्ञा दत्तं, साप्यन्यसक्तत्वादन्यस्मै दत्त-
वती, सोऽपि पुरुषोऽन्यस्यै दत्तवान्, सापि पुना राज्ञे दत्तवती, तद्दृष्ट्वा परमं
वैराग्यमापन्नो राजा स्वसहितान्पत्न्यादीन्निन्दति -
यां चिन्तयामि सततं मयि सा विरक्ता
साप्यन्यमिच्छति जनं स जनोऽन्यसक्तः ॥
अस्मत्कृते च परितुष्यति काचिदन्या
धिक् तां च तं च मदनं च इमां च मां च ॥ २ ॥
यामिति ॥ अहं यां सततं निरन्तरं हृदि चिन्तयामि सा मयि विरक्ता-
ऽस्ति ॥ साप्यन्यं जनं जारपुरुषमिच्छति वाञ्छति, स जनोऽप्यन्यस्मिंस्त्रीजने
सक्त आसक्तः, यद्वाऽन्यस्यां सक्तः, सर्वनाम्नो वृत्तिमात्रे पुंवद्भावात् ॥ अ-
स्मत्कृते चास्मदर्थे त्वन्या काचित्परितुष्यति संतोषं प्राप्नोति ॥ अतो याऽस्म-
दर्थे परितुष्यति तां धिक् ॥ अन्यसक्तं तं जनं धिक् ॥ इमां मदीयां स्त्रियं
मां च धिक् ॥ इदं सर्व मदनकृतमिति तं मदनमपि धिगित्यर्थः ॥ " वसन्त-
तिलका वृत्तम् ॥ तदुक्तं वृत्तरत्नाकरे - उक्ता वसन्ततिलका तभजा जगौ ग
इति" ॥ २ ॥
अत्र लोके हि त्रिविधा जनाः अज्ञः सुज्ञोऽल्पज्ञश्चेति तत्राऽऽद्यः सुखसा-
ध्यः द्वितीयस्तु सुखतरसाध्यः तृतीयस्त्वसाध्य इत्याह-
अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः ॥
ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥ ३ ॥
अज्ञ इति ॥ न जानातीत्यज्ञः ॥ अकिंचिज्ज्ञ इत्यर्थः ॥ स तु सुखं यथास्या-
तथाऽऽराध्यः सेव्यः ॥ विशेषं जानातीति विशेषज्ञः स तु सुखतरमतिसुखेना-
ऽऽराध्यते ॥ ज्ञानस्य लवो लेशस्तेन दुर्विदग्धः दुःशब्दो दुष्टार्थकः हिताहितवि-
वेकशून्यत्वेन दुष्टं यथा स्यात्तथा चतुरः ज्ञानलेशमात्रेणाऽऽत्मानं पण्डितंमन्य
इति यावत् ॥ एतादृशं नरं ब्रह्माऽपि चतुर्मुखोऽपि न रञ्जयति न साधयति
न वशीकरोतीति यावत् ॥ काऽन्येषां वार्तेत्यर्थः ॥ " आर्या वृत्तम् । तदुक्तं
श्रुतबोधे - यस्याः प्रथमे पादे द्वादश मात्रास्तथा तृतीयेऽपि ॥ अष्टादश
द्वितीये चतुर्थके पञ्चदश साऽऽर्येति" ॥ ३ ॥
Digitized by Google