शतकत्रयम् /129
This page has not been fully proofread.
२८
भर्तृहरिकृतं
अत्यन्तपापहेतुभूताविषयसेवनं परित्यज्य सुखहेतुभूतं वनवासं कुर्वतः पुरु-
षस्य, धन्यतामाह-
सखे धन्याः केचित् त्रुटितभवबन्धव्यतिकरा
वनान्ते चिन्तान्तर्विषमविषयाशीविषगताः ॥
शरञ्चन्द्रज्योत्स्नाधवलगगनाभोगसुभगां
नयन्ते ये रात्रिं सुकृतचयचित्तैकशरणाः ॥ ५६ ॥
सखे इति ॥ हे सखे हे मित्र ये केचित्पुरुषाः शरदि शरत्काले यश्चन्द्र-
स्तस्य ज्योत्स्ना चन्द्रिका तया धवलः शुभ्रो यो गगनाभोग आकाशविस्ता-
रस्तेन सुभगां मनोहरां रात्रिं नयन्ति ते धन्याः सन्तीति शेषः ॥ किंभूताः
त्रुटितरिछन्नो भवबन्धनस्य संसारबन्धस्य व्यतिकरो संबन्धो येषां ते, तथा
वनान्ते वनमध्ये चित्तस्यान्तर्मध्ये ये विषमा विषयास्त एव आशीविषा:
सर्पा गता येषां ते, [वाहिताग्न्यादित्वाद्गतशब्दस्य परनिपातः ॥ तथा सुकृ-
तानां पुण्यानां चयः समूहस्तस्मिन्यच्चित्तं तदेव एकं शरणं येषां ते एवं-
विधाः ॥ पुण्यसंपादनैकचित्ता इत्यर्थः ॥ " शिखरिणी वृत्तम् " ॥ १६ ॥
संसारदुःखेन खिन्नः पुरुषः स्वचित्तं प्रार्थयते -
एतस्माद्विरमेन्द्रियार्थगहनादायासदादाशु च
श्रेयोमार्गमशेषदुःखशमनव्यापारदक्षं क्षणम् ॥
शान्तं भावमुपैहि संत्यज निजां कल्लोललोलां मर्ति
भूयो मां भज भङ्गुरां भवरतिं चेतः प्रसीदाधुना ॥ ५७ ॥
एतस्मादिति ॥ हे चेतः एतस्मादायासं ददातीत्यायासदं स्तस्मात्, इ-
न्द्रियाणामर्थो विषयः स एव गहनमरण्यं तस्माद्विरम निवृत्तो भव ॥ [ आ-
यासकष्टाश्रयादिति पाठे ] आयासः श्रमः कष्टं दुःखं च तयोराश्रयादित्यर्थः ॥
तथा आशु शीघ्रं श्रेयसः कल्याणस्य मार्ग वर्त्मभूतम्, तथा अशेषाणि यानि
दुःखानि तेषां शमने यो व्यापारस्तस्मिन् दक्षं समर्थमेवंविधं शांतं भावं
स्थितिं क्षणं क्षणमात्रमुपैहि प्राप्नुहि ॥ [ स्वात्मीभावमिति पाठे ] स्वात्मीभावं
स्वः स्वीयः आत्मीभावः स्वरूपस्थितिर्यस्मिन्नेवंविधं श्रेयोमार्गमुपैहीति संबन्धः ।
तथा कल्लोलवज्जलतरङ्गवल्लोलां चञ्चलां निजां स्वकीयां मतिं बुद्धि संत्यज
भूयः पुनर्भङ्गुरां नाशशीलां भवे रति प्रेम मा भज मा कुर्वित्यर्थः ॥ किं तर्हि
अधुनेदानीं प्रसीद प्रसन्नं भव ॥ " शार्दूलविक्रीडितं वृत्तम् " ॥ १७ ॥
Digitized by
Google