Proofing

This page has not been fully proofread.

66
 
वैराग्यशतकम् ।
 
द्वारं द्वारं प्रवृत्तो घरमुदरदरीपूरणाय क्षुधार्तो
 
२७
 
मानी प्राणी स धन्यो न पुनरनुदिनं तुल्यकुल्येषु दीनः ॥५४॥
पुण्ये इति ॥ मानी अभिमानी प्राणी जन्तुः, "प्राणी तु चेतनो जन्मी
जन्तुरित्यमरः" ॥ क्षुधया आर्तः पीडितः सन् पुण्ये पुण्यकारके ग्रामे वा -
ऽथवा महति वनेऽरण्ये सितपटः शुभ्रवस्त्रं तेन छन्ना आच्छादिता पाली आ-
समन्तात्प्रदेशो यस्यास्ताम्, पालिः कर्णलतायां स्यात्प्रदेशे पङ्किचिह्नयोरित्य-
जयः ॥ [ कृदिकारादिति ङीष् ॥ अल्पं कपालं कपाली घटशकलं ताम् ॥
"कपालोऽस्त्री शिरोस्थिनस्याद्घटादेः शकले व्रजे इति मेदिनी" "स्त्री स्या-
त्काचिन्मृणाल्यादिर्विवक्षापचये यदीत्यमरात्स्त्रीत्वमाप" अपचये अल्पत्वे विवक्षा
चेदित्यर्थः ॥ [ गौरादित्वात् ङीष् ॥ ] आदाय गृहीत्वा उदरमेव दरी गुहा
तस्याः पूरणाय पूरणं कर्तुं न्यायो नीतिर्गर्भे येषामेवंविधाये द्विजा ब्राह्मणास्तै-
हुतो 'यो हुतभुगग्निस्तस्य यो धूमस्तेन धूम्रं धूम्रवर्णमुपकण्ठमन्तिकभागो य-
स्यैवंविधं द्वारंद्वारं प्रवृत्तो भवेदेतद्वरं योग्यं परंतु पुनः अनुदिनं दिवसंदिव-
सं प्रति तुल्याः समाना ये कुल्याः कुलोद्भवा मान्या वा तेषु दीनो न भवेत्
" कुल्या पयःप्रणाल्यामित्युपक्रम्य । कुलोद्भवे कुलहिते त्रिषु माम्ये पुनः पुमानि -
ति मेदिनी" स धन्योऽस्ति ॥ " स्रग्धरा वृत्तम्" ॥ ५४ ॥
 
योगिनां स्थितिमाह—
 
चाण्डालः किमयं द्विजातिरथवा शूद्रोऽथ किं तापसः
किंवा तत्त्वविवेकपेशलमतिर्योगीश्वरः कोऽपि किम् ॥
इत्युत्पन्नविकल्पजल्पमुखरैः संभाष्यमाणा जनै-
 
र्न क्रुद्धाः पथि नैव तुष्टमनसो यान्ति स्वयं योगिनः ॥ ५५ ॥
 
चाण्डाल इति ॥ अयं चाण्डालः किम्, अथवा द्विजातिर्ब्राह्मणः किम्,
अथवा शूद्रः किम्, वा अथवा तापसस्तपस्वी किम्, अथवा तत्त्वविवेकेन
तत्त्वविवेचनेन पेशला निपुणा मतिर्बुद्धिर्यस्य स एवंविधः कोऽपि योगीश्वरः
किम्, इति पूर्वोक्तप्रकारेण उत्पन्ना ये विकल्पजल्पा विकल्पयुक्त भाषणानि
तैर्मुखरा वाचालास्तैर्जनैः संभाष्यमाणा अपि योगिनः क्रुद्धा न भवंति तथा
तुष्टमनसः संतुष्टान्तःकरणा एवंविधा अपि न भवन्ति किंतु स्वयं स्वेच्छया
पथि मार्गे यान्ति गच्छन्ति ॥ दुर्जनैर्भत्सिता अपि क्रोधहर्षरहिता योगिनः
स्वाच्छंद्येन वर्तन्त इति भावः ॥ " शार्दूलविक्रीडितं वृत्तम्" ॥ १९ ॥
 
Digitized by Google