Proofing

This page has not been fully proofread.

२६
 
भर्तृहरिकृतं
 
अस्थिरचित्ता इंति यावत् ॥ एवंविधाः सन्ति, वयं तु स्थूलेच्छा महाशयाः
उदारान्तःकरणा इति यावत् । च पुनः महति पदे सार्वभौमादिस्थाने बद्धं
मनो येषां ते एवंविधाः स्मः, जरा देहं हरति नाशयति, मृत्युश्चेदं सकलं
जीवितमायुर्हरति, तस्मात् हे सखे इह जगति तपसोऽन्यत्र तपोविना वि-
दुषः पण्डितस्याऽन्यच्छ्रेयः कल्याणं नास्ति ॥ "शिखरिणी वृत्तम् " ॥ १२॥
क्षणभङ्गुरविषयसुखादित्यागपूर्वकं योगाभ्यासः कर्तव्य इत्याह-
भोगा मेघवितानमध्यविलसत्सौदामनीचञ्चला
आयुर्वायुविघट्टिताभ्रपटलीलीनाम्बुवद्भङ्गुरम् ॥
लोला यौवनलालसा तनुभृतामित्याकलय्य द्रुतं
योगे धैर्यसमाघिसिद्धिसुलभे बुद्धिं विदध्वं बुधाः ॥ ५३ ॥
भोगा इति ॥ भोगा विषयसुखानि मेघानां वितानो विस्तारस्तस्य मध्ये
विलसन्ती या सौदामनी विद्युत् तद्वचञ्चलाः विद्युद्वदतिशीघ्रविनाशिन इत्य-
र्थः ॥ सन्तीति शेषः ॥ एवमुत्तरत्रापि शेषपूरणं कर्तव्यम् ॥ तथा आयुर्जीवितं
वायुना विघट्टिता चालिता याभ्रपटली मेघसमूहस्तस्मिन्लीनं यदम्बु जलं त-
द्वद्भङ्गुरं नाशशीलमस्ति, तथा तनुभृतां देहिनां यौवने लालसा औत्सुक्यम् ॥
"लालसौत्सुक्यतृष्णातिरेकयाच्ञासु च द्वयोरिति मेदिनी" लोला चञ्चला-
स्ति ॥ यौवनस्याचिरस्थायित्वेन तदौत्सुक्यस्यापि तथात्वमित्यर्थः - इदं
सर्वविषयाणामुपलक्षणम् ॥ सर्वेऽपि विषयाश्चञ्चला इत्यर्थः । " तदुक्तं भागव
सप्तमस्कंधे । रायः कलत्रं पशवः सुतादयो गृहा महीकुअरकोशभूतयः ॥
सर्वेऽर्थ कामाः क्षणभङ्गुरायुषः कुर्वन्ति मर्त्यस्य कियत्प्रियं चला इति" तथा
एतच्छ्लोकटीकायां तदुक्तमितिहासेषु ॥ "धनं हि पुरुषो लोके पुरुषं धनमेव
वा ॥ अवश्यमेकं त्यजति तस्मात्कि धनतृष्णयोति च " ॥ इति पूर्वोक्तं सर्व-
माकलय्य ज्ञात्वा हे बुधाः यूयं धैर्येण समाधिना चित्तैकाग्र्येण च या सिद्धि-
स्तया सुलभे सुसाध्ये ॥ [ ध्येयसमाधाविति पाठे ] ध्येयवस्तुविषये यः समा-
धिस्तेनेत्यर्थः ॥ एवंविधे योगे द्रुतं शीघ्रं बुद्धिं विदध्वं कुरुध्वम् । "शार्दूल-
विक्रीडितं वृत्तम्" ॥ ५३ ॥
 
भिक्षया जीवनं योग्यं न पुनः स्वीयेषु दैन्येनेत्याह-
 
पुण्ये ग्रामे वने वा महति सितपटच्छन्नपाली कपाली-
मादाय न्यायगर्भद्विजहुतहुतभुग्धूमधूम्रोपकण्ठम् ॥
 
Digitized by
 
Google