शतकत्रयम् /126
This page has not been fully proofread.
वैराग्यशतकम् ।
२५
ण्यं दैन्यरहितमशनं भोजनम्, आर्यैः सद्भिः सह संवासः संगतिः, उपशमः
शान्तिरेवैकं मुख्यं व्रतफलं नियमसिद्धिर्यस्मिन् एवंविधं श्रुतं शास्त्रश्रवणम्,
बहिरपि बहिर्विषयेष्वपि मन्दः स्पन्दश्चलनं यस्य एवंविधं मन इति यत् सै-
षा ॥ " शिखरिणी वृत्तम्" ॥ ५० ॥
निःसंगत्वेन दैन्यं त्यजतां कर्मनिर्मूलनं कुर्वतां पुरुषाणां धन्यत्वमाह-
पाणिः पात्रं पवित्रं भ्रमणपरिगतं भैक्षमक्षय्यमन्नं
विस्तीर्ण वस्त्रमाशा दशकमपमलं तल्पमस्वल्पमुर्वी ॥
येषां निःसंगताङ्गीकरणपरिणतिः स्वात्मसंतोषिणस्ते
धन्याः संन्यस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयन्ति ॥ ५१ ॥
पाणिरिति ॥ पाणिर्हस्त एव पवित्रं पात्रं भाजनम् नान्यत्, भ्रमणेन.
परिगतं प्राप्तं भैक्षं भिक्षासमूहः अक्षय्यमव्ययमन्नम्, आशानां दिशानां दशकं
विस्तीर्ण वस्त्रम्, उर्वी पृथ्वी अपमलं निर्मलं [आशासु दशकममलमित्यपि
पाठः ॥ ] अस्वल्पं महत् तल्पं शय्या, तदुक्तं भागवते द्वितीयस्कंधे – "सत्यां
क्षितौ किं कशिपोः प्रयासैर्बाही स्वसिद्धे ग्रुपबर्हणैः किम् ॥ सत्यंजली किं
पुरुधान्नपात्र्या दिग्वल्कलादौ सति किं दुकूलैरिति । एवं येषां निःसङ्गताया
अङ्गीकरणं स्वीकारस्तस्य परिणतिः परिणामः, [निःसङ्गतान्तः करणेति पाठे ]
निःसङ्गतायामन्तःकरणस्य परिणतिरित्यर्थः । अतएव स्वात्मनि सन्तोषिणः
संतोषं प्राप्नुवन्तः, तथा संन्यस्ता दैन्यरूपा ये व्यतिकरा व्यसनानि दुःखा-
नीति यावत् तेषां निकरः समूहो यैस्ते, अथ व्यतिकरः पुंसि व्यसनव्यति-
षङ्गयोरिति मेदिनी ॥ " व्यसनं विपदि भ्रंशे इत्यमरवच" एवंविधाः सन्तो ये
पुरुषाः कर्म निर्मूलयन्ति निर्मूलं कुर्वन्ति ते धन्याः पुण्यवन्तः सन्तीति शेषः ॥
" स्रग्धरा वृत्तम् " ॥ ५१ ॥
इतरराजाद्याराधनापेक्षया तपस एवेह परत्र श्रेयस्करत्वमाह -
दुराराध्यः स्वामी तुरगचलचित्ताः क्षितिभुजो
वयं तु स्थूलेच्छा महति च पदे बद्धमनसः ॥
जरा देहं मृत्युर्हरति सकलं जीवितमिदं
सखे नान्यच्छ्रेयो जगति विदुषोऽन्यत्र तपसः ॥ ५२ ॥
दुराराध्य इति ॥ स्वामी चक्रवर्ती राजा दुःखेनाप्याराधयितुं शक्यः,
क्षितिभुज इतरे माण्डलिका राजानः तुरगवदश्ववञ्चलं चञ्चलं चित्तं येषां ते
४
Digitized by Google